________________
१८२
श्रीवर्धमानसूरिविरचितं [स.२. १४३८-१४४९]
भद्रनाम तपश्चक्रे सचक्रे रतचेतसा ॥ १४३८ ॥ षण्णवत्या शतेनोपवासैः सद्धर्मवासनः । स महाभद्रमेकोनपञ्चाशत्पारणैर्व्यधात् ।। १४३९ ॥ उपवासैरसौ पश्चसप्तत्या च शतेन च । पारणैः पञ्चविंशत्याभजद्भद्रोत्तरं तपः ॥ १४४० ॥ द्विनवत्यधिकेनोपवासानां त्रिशतेन सः । सर्वतोभद्रमेकोनपश्चाशत्पारणैर्व्ययात् ।। १४४१ ।। षष्ठेनादौ ततः षष्ट्या झुपवासैरनारतम् । एकान्तरैर्मुनिर्धर्मचक्रवालं तमोऽतनोत् ॥ १४४२ ।। आचाम्लेयवालान्तरेकायकवर्धितः ॥ शतसंख्यैः स आचाम्लार्यमान व्याधात्तपः ॥१४४३ ।। तचतुर्दश वर्षाणि त्रिमासी दिनविंशतिम् ।। नाः तन्धन सौ चके कृशमङ्गं च कर्म च ॥१४४४ ॥ एकदासौ नमस्कृत्य शुभकृत्यमकाशकम् । द्वादशभिरतिपावने पृष्टवान्गुरुम् ॥ १४४५ ॥ दशपूर्वधरो धीरः सारसंहननः शमी । तसौ योग्य एवास्य दुःकरस्थापि कर्मणः ॥ १४४६ ॥ इति ध्यात्वा चिरं सिद्वसेनाचार्यस्तमादिशत् । वसायपुचिसो ऽर्थहते तद्विधेहि समीहितम् ॥ १४४७ ॥ तदा मुदा गुरूत्वानुज्ञाप्य च गणं क्षणात् । गच्छानिष्क्रय तेनाथ पारेभे प्रतिमादिमा ॥ १४४८॥ एकैकां भोजने पाने दत्तिं गृहात्यसौ मुनिः । यावन्मासं ततः पूर्णे मासे गच्छे ऽविशत्पुनः ॥ १४४९ ।। एवं सदत्तेपासस्य वृद्धिमेकैक शो ऽकरोत् ।