________________
[स.२. १४२७-१४३७] वासुपूज्यचरितम्
एकस्थानमेकदत्तिं विकृत्या रहितं ततः ॥ १४२७ ॥ आचाम्लमष्टकवलमित्येकैकस्य कर्मणः। हृते तपो व्यधादष्टकर्मसूदनमेव च ॥ १४२८ ।।
॥युग्मम् ॥ ज्ञानस्य दर्शनस्यापि चारित्रस्य च सेवनम् । चक्रे निरन्तरं साधुरुपवासस्त्रिभित्रिभिः॥ १४२९ ॥ शुक्लास्वेकादशीष्वकादशसंख्यासु सो करोत् । मौनोपवासकरणः श्रुतदेवीतपः शुभम् ॥ १४३०॥ शुक्लपक्षे ऽष्टभिरुपवासैराचाम्लपारणैः। दिनैः षोडशभिः सो ऽधात्तपः सर्वाङ्गसुन्दरम् ॥१४३१ ।। इत्येतत्कृष्णपक्षे तु ग्लानपालनलालसः .... सो ऽकाद्विषयद्वेषी नीरुक् सिंहाभिधं तपः ॥ १४३२॥ मुनिभत्रिंशदाचाम्लैरकान्तरितपारणैः । . . विदधे शुद्धबोधो ऽयं तपः परमभूषणम् ॥ १४३३ ॥ अङ्गान्येकादशाप्येष पूर्वाणि च चतुर्दश । द्विधा चन्द्रायणं न्यूनोदरतादितपो. व्यधात् ।। १४३४ ॥ अथैका प्रतिपद् द्वे च द्वितीये तिथयो ऽखिलाः। यावत्पश्चदश ज्ञेयाः पूर्णमास्यो निरन्तरम् ॥ १४३५ ।। उपवासर्विशुद्धाः स्युर्यत्र तत्तप. उज्ज्वलम् । व्यातेने मुनिना सर्वसौख्यसंपत्तिनामतः ॥ १४३६ ॥
॥ युग्मम् ॥ जिनानां नष पनानि प्रतिपद्म निरन्तरैः। उपवासैस्तु सोऽष्टामिश्चक्रे पद्मोत्तरं तपः ॥ १४३७ ॥ पञ्चसप्तत्युपवासैः पञ्चविंशति. पारणैः ।