________________
..
..
१८० श्रीवर्धमानसूरिविरचितं [स.२.१४१६-१४२६]
प्रभो प्रभवति मायः को ऽप्युपायः स किं कचित् । येन स्याविषतामन्तो हन्त दुःकर्मणामपि ॥ १४१६ ॥ अथाभ्यधात्सुधापूरसोदरी स गुरुर्गिरम् । तप एवास्ति दुःकर्मममनिमयनिष्ठुरम् ॥ १४१७ ॥ धत्ते तदपि तीव्रत्वमङ्गनिःसङ्गताभृताम् । निःसाता तु दीक्षाया दाक्षिण्येन यदि स्थिरा ॥ १४१८॥ चेतसो निश्चलत्वेन प्राप्यते सा महाशयः । कर्मदावानलज्वालाविध्यापनघनाघनः ॥ १४१९ ॥ इति श्रुत्वाथ तत्त्वार्थ सत्त्वभाक्संनिधौ गुरोः । साग्रहः सो अहीदीक्षां संमदी क्षान्तितत्परः ॥१४२०॥ सिद्धान्ताध्ययनोद्रेकाद्विवेकाश्चितचेतनः । तपः कपटनिर्मुक्तमारेभे संवरो मुनिः ॥ १४२१ ॥ असौ सद्धर्मचातुर्यस्तुर्यषष्टाष्टमैर्व्यधात् । तपोभारैः शरासारैर्जर्जरं कर्मपञ्जरम् ॥ १४२२ ।। पुरिमार्धमेकभक्तं नैविकृत्यं च कृत्यवित् । आचालमुपवासं च सेक्मानः प्रतीन्द्रियम् ॥ १४२३ ।। दिवसः पञ्चविंशत्या जितेन्द्रियशिरोमणिः । स इद्रियजयं नाम तपश्चके यथाविधि ॥ १४२४ ॥
. युग्मम् ॥ एकभक्तं नैर्विकृत्यमाचाम्लं भक्तवर्जनम् । एवं षोडशाभिर्घस्त्रैः स कषायजयं व्यधात् ॥ १४२५ ॥ निर्विकृतिकमाचाम्लमभक्तं विदधन्मुनिः । योगानां शुद्धये योगशुद्धिं नवदिनैर्व्यधात् ॥१४२६॥ अभक्तमेकाशनकमेकसिक्यकमप्यथ ।