________________
[स.२. १३८२-१३९२] वासुपूज्यचरितम् १७७
नाविष्करिष्ये निःशेषद्रोहदं दोहदं कचित् । अपत्यमेनमुत्पन्नमेव त्यक्ष्यामि च क्षणात् ॥ १३८२ ॥ इति ध्यानवती यावदिनानि गमयत्यसौ । तावद्विधिनियोगेन धनदो निधनं ययौ ॥ १३८३ ॥
युग्मम् ॥ धनं यद्यस्य हस्ते ऽभूत्तत्तेन जगृहे ऽखिलम् । दोहदो ऽस्याः स्वभावेन पूर्णस्तूर्णतरस्ततः ॥ १३८४ ॥ पूर्णैर्दुर्दिवसैस्तस्या जातः पातकवान् सुतः । पिङ्गाक्षिकेशः कृष्णाङ्गः कुब्जो न्युब्जः खरस्वरः॥१३८५।। सदुःखा सूतिरोगार्ता मुक्ता परिजनेन सा । इदृग्गाने सुते जातमात्रे तत्र मृता ततः॥ १३८६ ॥ तस्या दत्तः शिखी तुल्यजातिभिः प्रातिवेश्मकैः । पयांसि कृपया सो ऽपि पायितः प्राणितश्च तैः॥१३८७॥ उत्पन्नामुना सर्व श्रीकुटुम्बादि संवृतम् । । ततः संवर इत्यस्य जनैर्नाम विनिर्ममे ॥ १३८८ ॥ . अज्ञानजनदुर्वाक्यताडनैववृधे ऽधिकम् ।। ग्रीष्मवातरजःपातैर्यवासक इवासकौ ॥ १३८९ ॥ वैरूप्यमेव तस्याभूत्पत्तने वर्तनं शिशोः। विटानां विटविद्यैव जीवनं जायते यतः ॥ १३९० ॥ तारुण्येनापि वैरूप्यं हतं नास्य मनागपि । ... लेष्टुं वैकटिको यस्मादुत्तेजयितुमक्षमः ॥ १३९१ ॥ उलूक इव काकोलैर्लोलैः कोलाहलोल्बणैः । पुरि भ्राम्यबसौ डिम्भैः संभूय स्माभिभूयते ॥ १३९२ ॥ दुर्बलानां बलं राजकुलमित्येष चिन्तयन् ।