________________
१७६ श्रीवर्धमानमूरिविरचितं [स.२.१३७०-१३८१] नव्याद्भुतश्रिये भव्याः सेव्यतां शीलमुज्ज्वलम् ॥१३७० ।।
॥ इति शीलधर्मे सनत्कुमारशृगारसुन्दरीकथा ॥ सत्कर्माभ्युदये हेतुं शीलं सेव्यमिदं सताम् । दुःकर्मदारि सत्कर्मकारि सेव्यतमं तपः ॥ १३७१ ॥ अनादिसिद्धदुःकर्मद्वेषिसंघातघातकम् । इदमाद्रियते धीरैः खड्गधारोपमं तपः ॥ १३७२ ॥ ज्ञानचक्षुषि नैर्मल्यं तत्त्वातत्त्वावलोकनम् । तपस्तपनवद्दत्ते तमाशमनतः सताम् ॥ १३७३ ॥ कमैधांसि दहन्पुष्टस्तपोवह्निरयं नवः ।। हरते देहिनां दाहं यः संसारसमुद्भवम् ॥ १३७४ ॥ तत्तपः सेव्यतां दक्षा दुःकर्मक्षालनोदकम् । यत्सेवया रयादेव सेव्यो ऽभूद्भुवि संवरः ॥ १३७५ ॥ - तथाहि हृदयग्राहिगुणसागरनागरा । जम्बूद्वीपे ऽस्त्ययोध्यापूर्वरतक्षेत्रभूषणम् ॥ १३७६ ॥ . इंहाजनि महीजानिमहासेन इति श्रुतः । चिन्तामणिषु यद्दानश्रियो बिम्बमिवैश्यत ॥१३७७॥ अभूद्भपस्य मान्यो ऽस्य सार्थेशो धनदाभिधः । मूर्ता वृषा इव वृषा रेजुर्यस्य धनार्जने ॥ १३७८ ॥ धनश्रीरिति तस्यासीत्प्रेयसी श्रेयसी गुणैः । बभौ प्रथमसख्यस्य या तीर्थ रूपशीलयोः॥ १३७९ ।। दुर्गतेर्निर्गतः को ऽपि जीवः पीवरदुःकृतः। कैश्चिद्भाग्यैरभाग्यानां तस्या गर्भमवातरत् ॥ १३८० ॥ शये पांशुजुषि क्ष्मायां मुण्डिता खण्डितांशुका । इत्यस्या गर्भनिर्भाग्यैर्दुःखदो दोहदो ऽजनि ॥ १३८१ ॥