________________
सि.२. १३५९-१३६९] वासुपूज्यचरितम्.
१७५
अधुना विधुना तुल्यं वदनं सदनं श्रियः । पौरचक्षुश्चकोराणां स्वं दर्शय महाशय ॥ १३५९ ।। अथ पुत्राहतोत्सङ्गः पट्टमातङ्गसंगतः। पट्टदेव्या सस्नुषया वशावाहनयान्वितः ॥ १३६० ॥ चारुपार्थद्वयश्चन्द्ररत्नचूडादिखेचरैः। .... अमन्दैबन्दिनां वृन्दैवर्ण्यपुण्यमहोदयः ॥ १३६१ ॥ प्राविशत्परमानन्दसुधापूरपरिप्लुतम् । भूजानिः स्वजनैः साकमुस्पताकमसौ पुरम् ॥ १३६२ ।।
त्रिभिर्विशेषकम् ॥ अस्मिन्नेव क्षणे मापः क्षणदायिनि दक्षिणः । अभिषिच्याङ्गजं राज्ये सभार्यो ऽगात्तपोवनम् ॥ १३६३ ॥ अवाप्य पैत्रिकं राज्यं मुदितो मित्रयोरयम् । विद्याधरपुरश्रेणिद्वयं खेचरयोर्ददौ ॥ १३६४ ॥ ततो विद्यावशेनारा वशीकृतमहीतलः ।, यशोभिः शोभयामास भासुरैर्भुवनत्रयम् ॥ १३६५ ॥ सलीलशीलमाधुर्ये धर्मधुर्ये ऽत्र भूभुजि ।... जज्ञे धर्ममयं शश्वद्विश्वं विश्वम्भरातलम् ॥ १३६६ ॥ गृङ्गारसुन्दरीजानि शीलादुन्मीलितोदयम् । भूचरैः खेचरैः सेव्यं पश्यन्को ऽभून शीलभाक् ॥१३६७॥ इत्थं पृथ्वीश्रियं भुक्त्वा जन्मान्ते ऽनशनोत्तमः । सभार्यः स ययौ राजा विमाने नुत्तरे अजिते ॥ १३६८ ॥ शीलमूले गुणस्तम्बे राज्यपत्रे यशःसुमे । धर्मकल्पमे सैष लब्ध्वा शिवफलं क्रमात् ॥१३६५ ॥ सनत्कुमारशृङ्गारमुदरीचरितश्रुतेः ।