________________
श्रीवर्धमानसूरिविरचितं [स.२. १३४७ – १३५८]
पुरं पुरन्दरावाससदृशं सुदृशां पदम् । यमवेश्मेव भूतानामास्पदं तदभूत्तदा ।। १३४७ ॥ अमन्दाक्रन्दसंदर्भे दूरं पौरजने तदा । शुचैव प्रतिशब्देन चक्रन्दे मन्दिरैरपि ।। १३४८ ।। कृत्याकृत्याद्यजानन्तो वत्स त्वत्संगमं विना । हा जीवन्तो ऽप्यजीवन्त इव जाता वयं तदा ।। १३४९ ।।
१७४
रम्परामारमारामधामकामकलादयः । अकृतार्थाः पदार्थास्ते तदासन्विषसोदराः ।। १३५० ॥ नदियोगाग्निकीला धर्तु जीवितमक्षमा ।
अजनिष्ट परित्यक्तभोजना जननी तव ।। १३५१ ॥ कुलालंकारभूतस्य तवादर्शनदुः स्थिता । कुलाधिदेवतामेव सेवमानाग्रतः स्थिता ।। १३५२ ।। तपसः साष्टमस्यान्ते नितान्तं भक्तिनिर्भरा । आदिश्यत स्वयं स्वप्ने कुलदेवतया तया ।। १३५३ ।। लब्धविद्याधरैश्वर्यः शीलवर्यः प्रियायुतः ।
स ते सति सुतः सत्यं मासस्यान्ते मिलिष्यति ।। १३५४॥ तत्त्वादृशसुतासङ्गसमुत्सुकतमानिमान् । प्राणान्धारयितुं वत्से विधत्से किं न भोजनम् ।। १३५५ ।। इयं स्वनामिति प्रातर्निवेदितवती मया ।
कयंचिदुपरोधेन प्रतिबोधेन भोजिता ।। १३५६ ।। मासस्यान्तदिनं प्रातरद्य प्राप्य महाग्रहा । मयात्पर्य निषिद्धापि मर्तुमेषा चितां व्यधात् ॥ १३५७॥ गाः सत्यापयितुं देव्याः स्पृहां पूरयितुं मम ।
अस्याश्च रक्षितुं प्राणाञ्जातस्तात तवागमः ।। १३५८ ॥