SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ [स.२. १३३५-१३४६] वासुपूज्यचरितम् ज्यचारतम् १७३ पनत्कुमारसाम्राज्यप्रेक्षापाज्यप्रमोदभाक् । पथिका पथिकान्तस्य जाता भानुमती ततः ॥ १३३५ ।। स्वल्पैरपि दिनैस्तस्य चक्रिणः खेचरेश्वराः ।। निग्रहानुग्रहारम्भैरवश्यं वश्यतां गताः ॥ १३३६ ॥ पितृपादवियोगार्तिः खेचरालीतो ऽथ सः । समं शृङ्गारसुन्दर्या प्रतस्थे स्वपुरं प्रति ॥ १३३७ ॥ पुर्याः पर्यन्तमायाति स यावचावदैवत । धूमस्तोमं ससंरम्भो नभस्याम्भोदविभ्रमम् ॥ १३३८ ।। किमेतदिति चिन्तातः सो ऽवनौ नयनं नयन् । पुरीसरित्तटे ऽपश्यदसंख्यं दुःखिनं जनम् ॥ १३३९ ।। तन्मध्ये चानलज्वालामालाभिर्निचितां चिताम् । लोकयन्नाकुलस्वान्तो विमानादुत्ततार सः॥ १३४० ॥ सोत्कर्षतुमुलैः सैष प्रेक्ष्यमाणः प्रजाकुलैः । चितोपान्तजुषो मातुः पादयोरातुरो ऽपतत् ।। १३४१ ॥ इयन्तं समयं वत्स क स्थितो ऽसीति वत्सला । सूनोः कण्ठे लगित्वासौ रुदत्परिजनारुदत् ॥ १३४२ ।। मातः श्रीतातपादेभ्यः क्षेम इत्यस्य पृच्छतः । ज्ञातपुत्रागतिस्तत्राययौ भूपः पुरः पुरात् ॥ १३४३ ॥ पतन्तमेव पादाग्रे तमुत्सुकतमों नृपः।। आलिलिङ्ग मुहुर्दोभ्यो मुहुर्मूर्ध्नि चुचुम्ब च ॥१३४४ ।। कथं चितेति पुत्रस्य शङ्कातस्य पृच्छतः । जगाद जगतीजानिर्वत्स किं वेत्सि दूरगः ॥ १३४५॥ तदा त्वयोज्झिता पुत्र चित्रशाला शुचे ऽभवत् । विमुक्ता जीवितव्येन स्वजनस्य तनूरिव ॥ १३४६ ॥ V
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy