________________
१७२
श्रीवर्धमानसूरिविरचितं सि.२.१३२३-१३३४)
तुमुलः समभूभीष्मो ग्रीष्मे ऽम्भोधिरिवाधिकः ॥१३२३॥
युग्मम् ॥ इतः सनत्कुमारो ऽपि प्रियालापशतैः प्रियाम् । शुद्धशीलां समाश्वास्य स्वपुराभिमुखो ऽभवत् ॥१३२४॥ तं तथा प्रस्थितं प्रेक्ष्य भीता भीमप्रियावदत् । विपक्षेभ्यः कृपादक्ष रक्ष रक्ष पुरीमिति ॥ १३२५ ॥ इमं मद्भर्तृवृत्तान्तं जानन्तः खेचरेश्वराः। भीमारयो रयोत्तुङ्गाः पुरभङ्गार्थमागमन् ॥ १३२६ ॥ इत्युक्तः स तया सद्यो दयाहृयो दयाशयः । पुरीरक्षामुरीकृत्य ववले प्रवलायुधः॥ १३२७ ॥ म्रियध्वं मा म्रियध्वं मारे रे पत्तनभञ्जकाः । तमित्युग्रगिरं चन्द्ररत्नचूडौ प्रणेमतुः ॥१३२८ ॥ . एतयोः पृच्छतोः प्रीत्या शेखरीकृतहस्तयोः । स्ववृत्तान्तं निवृत्तान्तस्तापः क्षमापजनिर्जगो ॥ १६२९ ।। कुमारमथ तौ हर्षपथतूर्यत्विषा गिरा। .. तमूचतुश्चतुर्वर्गसंवर्गणगुणोदयम् ॥ १३३० ॥ अन्वहं नन्वहंकारभृता खेचरचक्रिणा। वैरिणा कारणाभावादावामेतेन ताडितौ ॥ १३३१॥ तदीदृशदशस्यास्य द्रङ्गभङ्गार्थमागतौ । ऋणस्येव न वैरस्य यतो जायेत जीर्णता ॥ १३३२ ॥ त्वं चेत्पुनः पुरस्यास्य नायकः क्षत्रनायकः तत्त्राता भव दासेरभावयोरावयोरपि ॥ १३३३॥ इत्युक्त्वा तो मुदाभोगमासुरौ भूपजन्मनः । तस्य खेचरचक्रित्वाभिषेकं तत्र चक्रतुः ॥ १३३४ ॥