________________
[स.२. १३११-१३२२] वायुपूज्यचरितम्
१७१
शरणं सिंहसूनुर्मे स्त्रियो हि पतिदेवताः ।। १३११ ।। सैंहिनामग्रहादेष विशेषकुपितस्ततः ।
निस्त्रिंशः कृष्टनिस्त्रिंशस्तद्वधा योद्धत स्फुरत् ॥ १३१२॥ आः पाप कुरुषे किं रे म्रियसे श्रियसे ऽधुना । इत्युच्चैरुच्चरन् राजसूनुराविरभूत्तदा ।। १३१३ ॥ आकस्मिकभयाद्भष्टः खड्गो भीमस्य हस्ततः । परदाररिरंसूनामूना हि बलसंपदः ।। १३१४ । कृपाणं पाणिना वीर गृहाण विगृहाण माम् । एवमप्रहरन्नेव क्षत्रपुत्रो रिपुं जगौ ।। १३१५ ॥ ततः प्रततलज्जेन रणासज्जेन चेतसा ।
Post
अचिन्तयदयं विद्याधरनाथस्तथा स्थितः ॥ खुरलीमध्यमध्यास्य सकलो saकलोत्करः । आजन्म यो मयाभ्यस्तः प्रस्तावे त्रस्त एव सः ॥ १३१७।। अकृत्यं तावदेकं मे परखी यदियं हृता । द्वितीयं तु त्रपाकारि भ्रष्टं युधि यदायुधम् ।। १३१८ ।। तदहं निरहंकारः कथमाननमात्मनः । दर्शयिष्यामि वश्यामु निजं स्वान्तः पुरीष्वपि ॥ १३१९ ॥ तदीदृशीं दशां नीतो यैरहं हन्त कर्मभिः । तान्येव रिपुरूपाणि जेतुमुद्यममाश्रये ।। १३२० ।। इति ध्यात्वा कुमारं तं क्षमधित्वा मियायुतम् । पुण्ये विद्याधरारण्ये व्रतं तापसमाप सः ।। १३२१ ।। निशम्य भीमवृत्तान्तं क्षणादारामरक्षकात् ।
भ्रान्ता भानुमती यावत्तदुद्यानं समासदत् ॥ १३२२ ॥ पुरतः पुरतस्तावद्धावमानजनोत्थितः ।