________________
श्रीवर्धमानसूरिविरचितं [स. २. १२९९ – १३१०]
इत्यूचे खेचरेन्द्रेण पटुभिश्वदुभाषितैः ।। १२९९ ।। मुग्धे मुधा सुधारश्मिसमानं कथमाननम् । कलङ्कयित्वा कुरुषे दृग्जलैः सज्जकज्जलैः || १३०० ॥ म दासे विश्वासान्निश्वासानलकेलिभिः । किं वाले ज्वालयस्य शिरीषसुमकोमलम् ।। १३०१ ॥ किमा देशकरं देवि मामिन्दीवरलोचने ।
१७०
नालोकयस्यमूल्लोकान्कुर्वतीन्दीवराकरान् ।। १३०२ ॥ नाविष्करोषि किं तोषाद्वदने सुदति स्मितम् । मद नदाहार्ते सुधासेचनसन्निभम् ।। १३०३ ।। धात्रीशमात्र पुत्रस्य विरहे ऽप्यारासि किम् । इदं विद्याधरैश्वर्य भुजिष्येण मया भज ।। १३०४ ॥ 'ईत्यालापी तथा पापी मौनेनैव न्यवेधि सः । वार्यो ऽवगुण्ठनेनैव सरजस्को हि मारुतः ।। १३०५ ।। विद्याछेदभयात्तस्याः सत्याः शापभयाच्च सः । शीललीलाविलोपाय बलात्कारं चकार न ।। १३०६ ॥ श्रुत्वेति भीमरोषेण प्रियाशीलमदेन च ।
;
द्वौ संकीर्णौ रसौ भेजे स प्रगल्भो यथा नटः ।। १३०७ ॥ अथायं विद्यया सद्यो विद्याधरगिरिं गतः । रथनूपुरचक्राख्यपुरोद्यानं समासदत् ।। १३०८ ॥ तत्र चित्रगिरः श्रुत्वा निष्ठुराः करुणाश्च सः । पश्यन्नदृश्यभूयाग्रे भीमं भार्या च दृष्टवान् ।। १३०९ ।। काले ऽस्मिन्करवालेन भीमो भीमो ऽभ्यधादिनाम् । न मन्यसे मां हन्यासि तदिष्टां देवतां स्मर ।। १३१० ।। अथाभाषन नाभाकतनया नयनायिका ।
17