________________
[स.२. १२८८-१२९८] वासुपूज्यचरितम् १६९
सौख्यं भर्तृभयानात्र नामुत्र वृजिनवजात् । तत्त्वं वद हृदस्तत्त्वं किं वरं परपूरुषे ॥ १२८८ ॥ एवं वचःसुधासारैः कुमारेन्दोरुदित्वरैः । तस्या मनसि विध्यातो वह्निर्मारविकारजः ॥ १२८९ ॥ चिन्तयामास साप्येवमहो मे भाग्यसंचयः । पापारम्भो ऽप्ययं पुण्यव्रजाय यदजायत ॥ १२९० ॥ अयं धर्मगुरुर्मे ऽभूत्तदस्मै गुरुदक्षिणाम् दास्ये विद्यावली विद्याधरैश्वर्यपदमदाम् ॥ १२९१ ॥ स्वभावबलिना विद्यावलोग्रेणाधुनामुना । पियाहतिविरोधेन सक्रोधेन धुतो युधि ॥ १२९२ ।। सर्वथा वितथारम्भो मत्पतिनिरहंकृतिः।... यदि श्रयति सन्मार्गमहो सो ऽपि महो मम ॥ १२९३ ॥
युग्मम् ॥ इति निश्चित्य चित्ते साभ्यर्थ्य समयोक्तिभिः कुमारायानवधाय ददौ विद्या यथाविधिः॥ १२९४ ।। सा तस्माद्धर्ममासाद्य सद्योविद्यास्ततश्च सः। . अहम्पूर्विकयान्योन्यं गुरुत्वान्नेमतुर्मुदा ॥ १२९५ ॥ अथापृच्छय कुमारं सा रंहसा स्वपुरीमगात् । दधौ च तद्वचः स्मृत्वा वपुः सपुलकं मुहुः ॥ १२९६ ।। सिद्धां विद्येश्वरी प्राज्ञः प्रज्ञप्तिं स्मरणागताम् । स पवच्छ प्रियालापैः प्रियाहत्तान्तमुन्मनाः ॥ १२९७ ।। कुमारकर्णपीयूषसारणीसारया गिरा। अवोचदुचितं वाच्यमथ विद्याधिदेवता ॥ १२९८ ॥ नीत्वा निजपुरारामे भीमेन भवतः प्रिया ।