________________
१६८ श्रीवर्धमानसूरिविरचितं [स.१२७६-१२८७] .
तन्नाथ मान्मथैर्वाणैर्मथ्यमानहदो मम । कारुण्यहरिणारण्य शरण्य शरणीभव ॥ १२७६ ॥ त्वदसंगानलज्वालावलीढाया दृहं मम । चित्तेश चारुतारुण्य शरण्य शरणीभव ॥ १२७७ ।। अतुच्छवाञ्छापाथोधिमध्यमग्नस्य मे हृदः । कन्दर्पकेलिनैपुण्य शरण्य शरणीभव ॥ १२७८ ॥ ममान्यासक्तचित्तेन पत्या संतप्तचेतसः । अगण्यपुण्यलावण्य शरण्य शरणीभव ॥ १२७९ ॥ इत्याकर्ण्य सुवर्णश्रीः सकर्णामृतवर्णिकाम् । तत्त्वज्ञः सत्त्ववानूचे वाचं वाचंयमोचिताम् ।। १२८० ॥ मुग्धे धर्मस्य सर्वस्वं न वेत्सीति वदस्यदः। तत्त्वज्ञैरिन्दुलीलस्य रक्षा शीलस्य शस्यते ॥ १२८१ ॥ परस्त्रीसंगनामानमुल्लसत्पङसंकुलम् । तत्कथं सुपथां पान्यैस्त्यक्तं पन्थानमाश्रये ॥ १२८२ ।। वाञ्छन्ति पररम्भोरूपरिरम्भेण ये मुखम् । उदारैः खदिराङ्गारैः शृङ्गारं स्पृहयन्ति ते ॥१२८३ ।। यदि सत्येन चित्ते ऽहं तव प्रिय इति स्थितः। . तत्किमर्थयसे दुःखसंमुखाय मुखाय माम् ॥ १२८४ ॥ अहो परनरासक्तिय॑क्तं युक्ता तवापि न । कुलीनापि विलीनासि किमस्मिन्कश्मले मले ॥ १२८५ ।। तदिदं धर्महत्कर्म विद्याधरि परित्यज । भज शीलं यतः कीर्तिरत्रामुत्र च नितिः॥ १२८६ ॥ सद्धर्ममूलं या शीलं सेवते देवतेव सा। ' महनीया महेच्छानामप्यत्रापि भवे भवेत् ॥ १२८७ ॥