________________
[स.१२६४-१२७२] वासुपज्यचरितम्
कासि कल्याणि केन त्वं कार्येणेहागता कुतः। इति पृष्टामुना हृष्टा स्पष्टमाचष्ट सा रसात् ॥१२६४ ॥ शृणु सौभाग्यभाग्यैकसिन्धो नेत्रविधूदय । रथनूपुरचक्राख्यं वैताव्ये ऽस्ति गिरौ पुरम् ॥१२६५ ।। तत्रास्ति धैर्यनिःसीमो भीमो भीमोहिताहितः । विश्वविद्यानिधिविद्याधरचक्री बलोद्धरः ।। १२६६ ॥ तत्पमहिषी भानुमतीसंज्ञा कृतीश्वर । स्वद्गणायत्तचित्ताहमिहायाता विहायसा ॥ १२६७ ॥ एकदा विशदानन्दः सविमानी समं मया । खेलन्खे तत्र वासन्तीपुर्या धुर्यो नृणां ययौ ।।१२६८॥ अन्तरिक्षे स्थितो ऽद्रक्षीदेष शृङ्गारमुन्दरीम् । अलंकर्तुम्भवत्कण्ठं सोत्कण्ठां वरमालया ॥१२६९ ॥ चिद्रूपः स भवद्रूपमायां निर्माय कौतुकात् । त्वदर्धासनमासीनस्तस्थावास्थानमोहकृत् ।। १२७० ॥ स्वकण्ठन्यस्तमालायां बालायां स विलक्षधीः । अलब्धपिण्डः काकोल इवोत्तत्य वियत्यगात् ।।१२७१।। मया सह सहर्षो ऽयमद्य खेलनिहागतः। ददर्श दर्शनीयाङ्गी दोलालोलां तव प्रियाम् ।। १२७२ ॥ किमेतदिति संमोहमरोहद्रोहितस्वरा। हृता धृतानुरागेण ततस्तेनाना तव ॥ १२७३ ।। तत्र तब्यसनव्यग्रे तव रागग्रहादहम् । त्वत्सेवावसरं यावददृश्यैव दिवि स्थिता ॥ १२७४ ।। स्वानुरागः स्वतन्त्रेण मुदूरं तेन पूरितः । पुनर्मे परतन्त्रायास्त्वमीशो रागजागरे । १२७५ ।।