SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ www. ammmmmmmmmmmmm. श्रीवर्धमानसूरिविरचितं स.१२५२-१२६३]. कोडे कुमारमारभ्य परिश्लिष्यन्मुहुर्मुहुः। ययौ नरविमानेन नरेन्दुर्मन्दिरं ततः ॥ १२५२ ॥ धिग्धिग्मे शूरतामस्य प्रिया यन्मे अतो हता। एवं हियैव निस्तेजा ययौ द्वीपान्तरं रविः ॥ १२५३ ।। ततः संध्यारुणं रेजे लोहगोलनिभं नमः ।। कुमारविरहज्वालामालाभिरिव तापितम् ।। १२५४ ॥ उद्धान्त इव शोकाब्धिः कुमारस्य हृदस्तदा । तमास्तोममिषायोमकुक्षिम्भरिरलक्ष्यत ॥ १२५५ ॥ कुमारस्फारनिःश्वासज्वालावलिवशादभूत् । ताराकुलच्छलायोम्नः स्फुट पिटकपटकम् ।। १२५६ ॥ मनस्तस्य रतेर्गेहं दहतो विरहानलात् । स्फुलिङ्गा इव निष्पेतुः प्रदीपाः प्रतिमन्दिरम् ।। १२५७॥ दूरात्तारापथे तारापतिः पतितवानथ । क्षिप्तः कुमारे मारेण यन्त्रोपल इवोज्ज्वलः ॥ १२५८ ।। यथा यथा रुचिश्चान्द्री सान्द्रीभूता भुवस्तले । तथा तथाभवत्तस्य म्लानमाननपङ्कजम् ॥ १२५९ ।। सुधारश्मेः मुधाधाराकारा अपि करोत्कराः । कुमारस्यादहन्देहं प्रियास्नेहगृहं मुहुः ॥ १२६० ॥ अथारतिकरं दूरे परित्यज्य परिच्छदम् । भीतः शीतरुचेः कामं चित्रधाम जगाम सः ॥ १२६१ ॥ स दुःखी यावदेकान्ते कान्ताचिन्तामयो ऽभवत् । तावत्पुरः सुरस्त्रीव काप्यभूदृक्पथे सुदृक् ॥ १२६२ ॥ । साक्षात्काक्षविक्षेपदक्षां प्रेक्षाम्बुधिः स ताम् । आह तत्सहसाक्षिप्तमन। मानपराङ्मुखीम् ॥ १२६३॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy