SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ [स.१२४१-१२५१] वासूपुज्यविरचितम् समाश्वसिहि वीरेन्द्र समाश्वसिहि धीनिधे । ... इत्युक्तयो ऽस्य सचिवाः शीतकर्म व्यधुः पुनः ॥ १२४१॥ मूर्छामयं तमो हित्वा श्रितः शोकमयं तमः।। कुमारो विललापाथ तरूनपि विलापयन् ॥ १२४२ ॥ अथागत्य पुरो लीनान्दीनान्साश्रुदृशो भृशम् । लीलाखगमृगानूचे गिरा रोदनदीर्घया ॥ १२४३ ॥ रे हंस कंसजित्कान्ताकमले ऽपि कथं तव । तत्कराग्रवियुक्तस्य वराक भविता रतिः ॥ १२४४ ॥ स्मतव्येष्वधुना स्नाततत्केशस्यन्दबिन्दुषु । .. कथं दीनो ऽम्बुदादभ्बु रे वप्पीह समीहसे ॥१२४५ ॥ क नृत्ये तादृशीः केकिन् शृणोषि करतालिकाः । यत्केकिरथमातापि जाता शूलभृताधिता ॥ १२४६ ॥ भजवायुतुरङ्गत्वं सारङ्ग त्वं हि सर्वगः ।.... लालयिष्यति सा धन्यं स्वां कुत्रापि वयं हताः ।। १२४७।। [रे कोकिल कलध्वानं किं तनोषिः न मर्चितः । दूरीभूतो ऽद्य यत्तस्याः सर्वगवेहरः स्वरः ॥] इत्यात विलपन्तं तं धीराणां योगिनामपि । पश्यतां धैर्यमुत्सार्य पूत्कारा निर्ययुर्मुखात् ॥ १२४८ ॥ अथ प्रियावियोगार्ति स दृढां सोदुमक्षमः ।..... प्रेवन्त्या वयात्मानं क्षिप्त्वा खे मृत्युमैहत ॥ १२४९ ॥ इहान्तरे परिज्ञाततत्पत्तिः परत्वरः। कुमारमाश्वासयितुं वनमाप क्षमापतिः ॥ १२५० ॥ . पितुः प्रणामव्याजेन लज्जया नमयशिरः । ..... कुमारः संववार स्वमथ गृढदव्यर्थः ॥ १२५१ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy