________________
श्री वर्धमानमूरिविरचितं [स.१२२९- १२४०]
तत्पादमहतस्योडुनिवहा नु विहायसः ।। १२२९ ॥ अहो प्रेम्णैकचित्तत्वं बाला दोलामियेष च । अमूं रमयितुं तत्र कुमारः प्रोत्ततार च ।। १२३० ॥ इमां दोर्भ्यामुदस्यैषपुलकी पुलकाश्चिताम् । स्वमिवानन्दचूलायां दोला यामध्यरोपयत् ।। १२३१ ॥ कुमारो दोलया बालां दिवि दूरं व्यलासयत् । यन्त्रेणेव स्मरः शक्तिमन्तः क्षामां मरुज्जये ।। १२३२ ।। दोला गतागतैस्तस्याः कान्तिरेखाकरं वपुः । हेमेव कपपापाणनिभे नभसि दिद्युते ।। १२३३ ॥ यां मुहुर्दोलया गत्वा हत्वा गर्व योषिताम् | उत्तरन्ती कुमारेण कुतुकेन व्यलोकि सा ।। १२३४॥ दोलाहला भर त्रुट्यत्तन्मुक्तावलिविस्तृतौ ।
दृष्टं सनत्कुमारेण दिवा तारकितं नभः ।। १२३५ ।। तादृग्विलाससंरम्भजृम्भमाणस्मरोदयः । आलिङ्गितुं प्रियाङ्गानि रङ्गगाढमनोरथः ।। १२३६ ।। दिवो दोलावतारस्य निमेषार्धमपि क्षणम् । उत्सुको गणयन्नद्वशतादप्यधिकं तदा ।। १२३७ ।। दोलामस्थिरयद्यावत्तावन्नास्त्येव तत्र सा । वदन् हा हेति हत्वा हृत्कुमारेन्दुमुमूर्च्छ सः ।। १२३८ ॥ - त्रिभिर्विशेषकम् ॥
१६४
किं किमेतदिति व्यग्रगिरा परिजनेन सः । प्रसृनरससेकेन मूर्छन्मूर्छः कृतस्ततः ।। १२३९ ।। हा त्रिये क गतासीति गद्गदां गिरमुद्गिरन् । आस्फाल्य भुवि मूर्धानमगच्छन्म ईनं पुनः ।। १२४० ।।