________________
श्री वर्धमानसूरिविरचितं [स. ११५९-११६९ ]
शुद्धा श्रद्धा त्वया दधे साध्वीं नन्तुं मुदा यदा । तदैव दैवता बन्धाः संहृता रोहिते मया । ११५९ ॥ यत्त्वया सुव्रताख्येयमजिह्मब्रह्मचारिणी ।
साध्वी नता पवित्रासि तत्त्वं साधर्मिका मम ।। ११६० । इत्युदीर्य चिरं वर्यतूर्यध्वानेन मिश्रितम् । जयकोलाहलं कृत्वा तिरोधत्ते स्म देवता ॥। ११६१ ॥ त्रिभिर्विशेषकम् ॥
१५८
अथात्मचरितोद्विग्नं व्रते तस्थौ मनो मम । वह्निना व्यथितः पाथस्यमृतः पारदो यथा ।। ११६२ ।। पापतापच्छिदे देहि देहिनो मे व्रतामृतम् । इत्थमभ्यर्थितात्यर्थ सुत्रता मामवीवदत् । ११६३ ॥ भाग्यवत्यसि भद्रे त्वं तत्त्वज्ञश्वेतनस्तव । कर्मद्रुमभिदे वज्रं ययांचे यत्त्वया व्रतम् ।। ११६४ ॥ किं तु मे गुरवः सन्ति श्रीशीलमभुसूरयः । लीलोद्यानतटे ऽभ्येत्य तदभ्यर्णे व्रतं भज ॥। ११६५ ।। इत्युक्ता तथा हन्त तवान्तिकमिहागमम् । ममापराधः सोढव्यो ऽनुमन्यस्व व्रताय माम् ॥। ११६६ ।। एवं निशम्य रम्यार्थं वचः सचिवसंभवः । दध्यावृत्तुङ्गवैराग्यतरङ्गच्छन्नमानसः ।। ११६७ ॥ अहह प्रहतज्ञानही यशोभययामिकैः ।
विषयैर्मुषितं मे ऽद्य तस्करैः सुकृतं धनम् ॥ ११६८ ।। तानेव पुरुषान्मन्ये न येषां विषमेषुणा । स्त्रीविभ्रमेषुभिर्भित्त्वा चित्तं धृतिरगृह्यत ।। ११६९ ।। सुव्रताया व्रतस्याहो माहात्म्यमभवत्कियत् ।