________________
[ स. ११७० - ११८१] वासुपूज्यचरितम्
१५९
देवं मुदिता देवी वितनोति प्रभावनाम् ।। ११७० ॥ ततः स्वस्य प्रतिन्याञ्चाब्रह्मणो ब्रह्मणो ऽन्तरम् । विज्ञाय स्यान्ममादातुं साम्प्रतं साम्प्रतं व्रतम् ॥ ११७१ ॥ किं चैतत्कुर्वतः स्यान्मे मुखच्छविरिहोज्ज्वला | अमुत्र च भवे भद्रं भूरिभाग्यभवं भवेत् ।। ११७२ ।। एवं चित्ते स निश्चित्य कृत्यं कात्यायनीं जगौ । स्वाभिप्रायं वदन्त्याम्ब त्वयाहं साधु बोधितः ॥ ११७३ ॥ ममाकृत्य कृतः कर्मोन्मूलने मूढचेतसः । उपायं ज्ञापयांचक्रे भवती भवतीरदम् ।। ११७४ ॥ आत्मा प्रमादपर्यङ्के शयानो मोहनिद्रया । कथं जागर्ति चेन्न स्यादुपदेशपरः पुरः ।। ११७५ ।। ततः श्राद्धे त्वया सा श्रद्धया गुरुसंनिधौ । ध्वंसाय स्वापराधस्य ग्रहीष्ये मार्हतम् ।। ११७६ ॥ इति प्रतिज्ञां कृत्वा सो ऽग्रतस्तस्या व्रतस्पृहः । आपृच्छयातुच्छ विच्छेद कातरौ पितरौ बलात् ।। ११७७ ॥ वन्यमानन्द्य तत्त्वज्ञं क्षत्रं मित्रमकुत्रिमम् । संबोध्य बान्धवान्कृत्वा कृतार्थानर्थिनो जनान् ॥ ११७८ ।। परिवारपरित्यागं कृत्वा कात्यायनीयुतः । श्रीशी प्रभसूरीणां संनिधौ व्रतमाददे ।। ११७९ ॥ त्रिभिर्विशेकम् ॥
विहरन्गुरुभिः सार्धं श्रीषेणः कर्मशोषणः । तपांसि तन्वसिद्धान्तं शुद्धान्तःकरणो ऽपठत् ॥११८० ॥ काले कियत्यपि कान्ते गुर्वादेशमवाप्य सः । sta स्थण्डिले तस्थौ शुद्धध्यानरतिर्यतिः ।। ११८१ ॥