________________
[स.११४८-११५८] वासुपूज्यचरितम् . १५७
तमाकर्ण्य स ऊर्खास्यो यावत्तिष्ठति विस्मितः । तावदाभाष्यतागत्य कात्यायन्या विरक्तया ॥ ११४८ ।। मया वत्स स्ववत्साया वात्सल्यान्मूढचेतसा । ह्यस्तने ऽहनि सद्धद्धिधिकृतं दुःकृतं कृतम् ।। ११४९ ।। तत्त्वदीयमहाकष्टैः स्वपुच्या दुष्टचेष्टितैः । अनुभूतमिदं दुःखं सद्यो ऽवद्यफलं मया ॥ ११५० ।। त्वत्कृते यत्तया पत्युरहितं विहितं निशि । तल्लोकज्ञातमप्यत्र मम वक्तुं न युज्यते ॥११५१ ।। तन्निःशेषं श्रुतं मातः प्रातरुद्यानपालतः । कस्त्वयं तद्गहोद्देशगगने मङ्गलध्वनिः ॥११५२ ।। इति श्रीषेणपृष्टेयमाचष्टे स्म सविस्मया। इदं वत्स स्वधर्मस्य स्वल्पस्यापि फलं शृणु ॥११५३ ।। . ....
युग्मम् ॥ सकृषेण नृपेणापि प्रोक्ता शासनदेवता ।। बद्धक्रोधा विधत्ते न मत्पुच्या बन्धमोक्षणम् ॥ ११०४ ।। पृथ्व नाथो ऽप्यथ व्याभ्यर्थनः सव्यथो हदि । ययावस्तोकलोकन स्वमोकः शोकसंकुलः ॥११५५ ॥ संप्रत्यकस्मादस्माकं सुकृतेः प्रेरित गृहे । साध्वीयुगलमध्वेक्षादक्षं भिक्षाकृते ऽविशत् ॥ ११५६ ॥ दृष्ट्वा तदुच्चरोमाञ्चकञ्चका साश्रुलोचना । .. बधनाभावतो ऽकुण्ठा भूमिपीठे लुठत्यसौ ।। ११५७ ॥ शरणं मे त्वदीयौ स्तंश्चरणाविति वादिनी। अनमञ्च सुता साध्वीमभवचाम्बरे वचः ।। ११५८ ।।
युग्मम् ।।