________________
१५६
श्रीवर्धमानमूर्गिविरचितं [स.११३६-११४७ कि तूक्ता तारकेणासौ सकृपेण नृपेण च । देव्युहन्नाति नाद्यापि रोहितां रमणाहिताम् ॥ ११३६ ॥ एवमाकण्य कर्णेषु तप्तत्रपुसमं वचः । श्रीषेणश्चिन्तयांचके बलाद्वैराग्यसंगमः ॥ ११३७ ।। मन्ये ऽस्मिन्नेव संजाते तुपुले मलसंकुलः । क्षालतः क्षणतः क्षिप्तस्तया बहिरहं तदा ।। ११३८॥ दुराचारद्रुमारामवनीरेता नितम्बिनीः । दुर्मेधाः किं व्यधाद्वेषाश्चिन्ता वासौ वृथा मम ॥ ११३० ॥ नार्यः कुकार्यकर्तृत्वानिन्द्याश्चेत्तत्पुमानपि । महानिन्यो ऽस्मि दुःकर्ममूलदुःशीलभाग्यतः ॥ ११४० ॥ मम धिग्मानुषं जन्म कुलं येन कलडिन्तम् । सावद्या सापि विद्याभूत्पापे मय्यपि या स्थिता ॥११४१।। क्षितौ जितेन्द्रियत्वं हि मूलं गुणलताततेः। .... कुशीलत्वकुशीयातैमेयोक्षिप्तं तदद्य हा ।। ११४२ ॥ मामकृत्यमति मत्वा जस्ता सापि त्रपा तदा । ' तिष्ठेदविरलं किं वा वारला पङ्किले जले ॥ ११४३ ॥ स्तुत्यः स सत्यमित्रत्वपात्रं क्षत्रशिरोमणिः । तारापीडो ऽखिलां पीडां जहे यो होकरी मम ॥११४४॥ अश्रोतव्यचरित्रो ऽहमपावित्र्यधनो ऽधुना। खमुखं दर्शयिष्यामि कयं तस्योपकारिणः ॥ ११४५ ॥ धन्यास्ते ये मिताम्लानमानमाल्यवरा नराः। . वकीर्तिमुक्ताभरणैर्विभूष्य भुवनान्यगुः ॥ १९४६ ।। इत्थं चिन्तयतो ऽत्यर्थ तस्य संविप्रचेतसः ।... तारकौकामदेशे ऽभूजयकोलाहलो बरे ।। ११४७ ।।