________________
[स.११२४-११३५] वामपूज्यचरितम् १५५
राज्ञादिष्टैभेटैर्दूरादातः स्वगृहे ऽगमत् ॥ ११२४ ॥ धौताङ्गः स प्रगे तत्रोपवने ऽस्थाल्लतागृहे । आरामपालकेभ्यश्च वाचं शुश्राव दुःश्रवाम् ॥ ११२५ ॥ अद्य सहितया रात्रौ पत्युर्निद्राजुषः श्रमात् । गलं छेत्तुं समुक्षिप्तः क्षुरिकादुर्धरः करः ॥ ११२६ ॥ तदाभूत्क्षुरिकास्तम्भस्तारकः सहसोस्थितः । रोहिता हृद्भरे बद्धा बन्धन रज्जुवर्जितैः ॥ ११२७ ।। अदृष्टैः सा हता घातैरारराट तथा कटु ।। यथास्य पत्तयो ऽन्ये च दधावुस्तुमुलाकुलाः॥ ११२८ ।। कुतो ऽप्यगाद्धराधीशः स्वोपाध्यायममत्वतः । स क्षणाद्रपमुक्षिप्य नम्रस्तामित्यभाषत ॥११२० ॥ महामभावे कासि त्वं तत्त्वं देहि ममादिश । स्त्रीमात्रे ऽत्र कृपापात्रे किममर्पः प्रकर्षितः ॥ ११३० ॥ एताभिर्भक्तिभाषाभिस्त्य वास्तोकतरां रुषम् । नमःप्रभावया का बभाषे देवता तृपम् ॥ ११३१ ॥ सम्यग्दृष्टिरहं देवी भक्ता सर्वज्ञशासने । धर्मकर्मप्रवृत्तानां सतां विनानि कारये ॥ ११३२॥ तामहं सम्यकं परदारपराङ्मुखम् । स्वपति निघ्नती क्रूरा मया बद्धेयमस्ति तत् ॥ ११३३ ।। किमसौ स्वपति हन्तीत्युक्ता राज्ञाह देवता । तमेव रमणं कर्तु यो बद्रो-मोचितस्त्वया ॥११३४ ॥
...... . . युग्मम् ।। सर्वज्ञाझास्ति ते ऽमुष्य-भाषसे यदि दूषणम् । प्रकाशयसिनामापि राजा देवीति कारिता ॥ ११३५ ॥