________________
श्रीवर्धमानसूरिविरचित [सं.१११२-११२३ आगत्योपवने तत्र ज्ञापयिष्यामि भाविनम् । वृत्तान्तं तु नितान्तं स्वां व्रज द्वारे ऽस्ति को ऽपिन॥१११३॥ एवमुक्तस्तया क्षालजलाविलतनुस्ततः । प्रणनाश स कीनाशपाशच्युत इव द्रुतम् ॥ १.१४॥ नरैसरक्षकै कोलाहलं श्रुत्वा त्वरागतैः। नश्यन्दृष्टः सकोदण्डदण्डैहत्वा न्यबध्यत ॥ १११५ ॥ गर्ताशूकरवत्को ऽयं दिग्धो दुर्गन्धकदमैः । इति दीपकरैरेभिरीक्षितः सोपलक्षितः ॥ १११६ ॥ युक्तो मोक्तुममोक्तुं वा मित्रं क्षितिपतेरसौ। इत्यालोचपराः सर्वे नरा मूढत्वमागमन् ॥ १११७ ॥ तदावदातधीवरिचर्यया संचरनृपः। आययौ तुमुलाकृष्टो दृष्टवान्पथि तं तथा ॥ १११८ ॥ ज्ञात्वा तं कृतिनां सीमा श्रीमान्भूमानचिन्तयत् । मन्ये ऽसौ मदुपाध्यायालये तुमुलकारणम् ॥ १११९ ॥ संसारे स्खलितं कस्य न स्यान्मतिमतो ऽपि वा । किं तु मे मित्रमा बाल्यात्तन्न युक्तमुपेक्षितुम् ॥ ११२० ॥ दृष्ट्वा मां त्वस्य लज्जा स्याद्राधाकृद्धन्धनादपि । इति निश्चित्य कृत्यार्थ प्रकृत्या निभृतोपकृत् ॥ ११२१ ॥ आरक्षकाणामात्मानं ज्ञापयित्वैष सत्वरम् । श्रीपेण मोचयांचक्रे तारापीडः स्वपीडया ॥ ११२२ ॥
- चतुर्भिः कलापकम् ॥ वपुःप्रमाणात्पच्छन्नोपकृतिप्रकृतित्वतः । । खस्य द्वाग्बन्धमोक्षाच नृपस्तेनोपलक्षितः ॥ ११२३ ॥ ततो दर्शयितुं स्वास्यमशक्तः सैष लजया ।