________________
१५० श्रीमानशिवरचितं (स.१०६६-१७७७
हृयो ऽप्यदेवः प्रासादः कोविंदैन नमस्यते ।। १०६६ ॥ सुखं चिन्तिसमल्पं यो दत्ते ऽनल्पमचिन्तितम् । धर्मश्चिन्तामणिर्धत्ते सो ऽस्मच्चित्ते चमत्कृतिम् ॥ १०६७ ॥ संसारग्रीष्मदुःखोर्मिधर्मसंतापिता यदि । ततो धर्मामृते सन्तु सजनाः सज्जमज्जनाः ॥ १०६८ ॥ क्षणे ऽस्मिन्विस्मयस्सेरनयनो मुनिदर्शनात् । सनत्कुमारः सद्भक्तिरुवाच रचिताञ्जलिः ॥ १०६९ ।। एवं यः स्तूयते धर्मः प्रभो युष्माभिरद्भुतः । देहिभिर्गेहिभिः सो ऽयं क्रियमाणो भवेन वा ॥ १०७०॥ भवेद्भव्यात्मनां धर्मः सर्वेषां विधिना कृतः । श्रुत्वेति श्रुतिपीयूषं मुनिवाचमुवाच सः ॥१०७१ ।। यद्यवं तत्कथंकारमिदं सारतरं वयः हृद्यं रूपमिदं मान्यैरवमन्य व्रतं वृतम् ॥ १०७२ ॥ अथ प्रथितपाथोधिधीरध्वानकिरं गिरम् । जगाद जगदानन्ददायकः साधुनायकः ॥१०७३ ॥ दुःकर्मबन्धवंशोत्थः संमोहोद्भुरधूमभृत् । दक्षपतिगणद्वेष्यः समीपस्थात्मतापकः ॥ १०७४ ।। दुर्गरोगस्फुलिङ्गोग्रः कलहत्राकृतारवः । मिथ्याज्ञानमरुत्प्रेर्यः सर्वेणं शोषपोषकः ॥१०७५ ।। अशक्यस्त्यक्तुमत्यन्तं मिथ्यादृष्टिजडालसैः । मृतिज्वालाभिरुत्फुल्लान्मनोरथतरून्दहन् ॥ १०७६ ॥ निरातङ्क सदानन्दं पदं गन्तुं शुभे ऽध्वनि । व्रते भवदवस्तावदेको हेतुर्ममाभवत् ॥ १०७७ ॥
चतुर्भिः कलापकम् ॥