________________
१४८
श्रीवर्धमानहरिविरचितं [स.१०४३-१०५४
त्वया लोकोत्तरः को ऽयं कलाकुशल कर्त्यते । । . मान्त्रिको उति धात्रीशपुत्रप्रश्ने ऽभ्यधादसौ ॥१०४३ ।। मान्त्रिको लोकसामान्यः सतां मान्यः स मन्यते । विषाणामौषधैर्मन्त्रैर्यश्चिकित्सां चिकीर्षति ॥ १०४४ ॥ यस्य शुद्धतपोध्यानैः सिद्धलब्धैः प्रभावतः । विषदोषा विलीयन्ते सैष लोकोत्तरः परम् ।। १०४५ ॥ किमीशो ऽपि दृश्यो ऽस्ति स्वस्तिदः कापि को ऽप्यहो । इति जल्पति भूपालभवे साश्चर्यचेतसि ॥१०४६ ॥ हर्षकोलाहलः को ऽपि शोककोकनिशाकरः। .. तूर्यवर्यरवोद्दामो दूरादाविरभून्महान् ॥१०४७ ॥ युग्मम् ।। किमेतदिति भूभभुवा पृष्टः पुरः पथि । त्वरां त्यक्त्वा जगौ कश्चित्पुरुषो ऽपरुपाक्षरैः ॥१०४८ ॥ ग्रामे ऽत्र नागनामा मे बन्धुर्विषधरान्मृतः । विशश्मशानमुत्तस्थौ तरसा शिबिकान्तरात् ॥ १०४९ ॥ तदेव दैवतो मर्त्यलोकासंभवसौरभः । उल्ललास कृतोच्छासनासास्वायः सदागतिः ॥ १०५० ॥ किमेष निर्विषः कौतस्कुतो वायुरसाविति । संलापः समभूत्तत्राशोके लोके तदा मुदा ॥ १०५१ ।। यावद्विक्षिप्यते दक्षैदिक्षु चक्षुरितस्ततः। तावद्भावभरोद्भासिसभागर्भविभूषणः ॥ १०५२ ॥ देवनिर्मितनिष्काब्जरत्नसिंहासनासनः। . दृष्टो धर्म दिशन्दूरादवनीपावनो मुनिः ॥ १०५३ ॥युग्मम्।। अहो महामुनिस्पर्शमाहात्म्यामोदमेदुरः। नागस्यास्य वभूवैष विषदोषहरो मरुत् ॥ १०५४ ॥