SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ [स.१०३१-१०४२] वासुपून्पचरितम् .. १४४ मया पुनरमायेभ्यस्तचझेभ्यः कथान्तरे। . गुरुभ्य इति सर्वत्रशासने विश्रुते श्रुतम् ॥ १०३.१ ।। तिथयः पञ्चमी षष्ठ्यष्टमी नवमिका तथा । चतुर्दश्यप्यमावास्याहिना दष्टस्य मृत्युदा ॥ १०३२॥ दष्टस्य मृतये वारा भानुभौमशनैश्चराः। .. प्रातःसंध्यास्तसंध्या च संक्रान्तिसमयस्तथा ॥ १०३३॥ भरणी कृत्तिकाश्लेषा विशाखा मूलमश्विनी । रोहिन्यादा मघा पूर्वात्रयं दष्टस्य मृत्यवे ॥ १०३४ ॥ वारि स्रवन्तश्चत्वारो दंशा यदि सशोणिताः। वीक्ष्यन्ते यस्य दष्टस्य स प्रयाति भवान्तरम् ॥ १०३५ ॥ रक्तवान्दंश एको वा छिद्री काकपदाकृतिः। शुष्कः श्यामस्विरेखो वा दष्टे स्पष्टयति व्ययम् ॥ १०३६ ।। • सावर्तः सर्वतः शोफावृतः संकुचिताननः । दंशः शंसति दृष्टस्य विनष्टमिह जीवितम् ॥ १०३७ ॥ केशान्ते मस्तके भाले भ्रूमध्ये नयने श्रुतौ । नासाग्र ओष्ठे चिबुके कण्ठे स्कन्धे हृदि स्तने ॥ १०३८।। कक्षायां नाभिपने च लिङ्गे संघौ गुदे तथा । पाणिपादतले दष्टः स्पष्टो ऽसौ यमजिह्वया ॥१०३९॥युग्म एषां मध्याविरुद्धं न जातमस्यास्ति किंचन । येनासौ नाशमभ्येति नागः पुनाग नागतः ॥ १०४० ।। ग्रामे ऽत्र मान्त्रिकः कोऽपि नास्ति लोकोत्तरः परम् । किं कर्पूरश्रियः पूरं पूरयेल्लवणाकरः ॥ १०४१ ॥ वदन्तमिति दिग्दन्तिदन्तद्युतिमतिः स तम् । उवाच रचितानन्दमानन्दं नृपनन्दनः ॥ १०४२ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy