________________
श्रीवर्धमानसूरिविरचितं [स. २. ९९७-१००७]
करिष्ये कस्य मङ्गल्यं हा हतास्मि हतास्मि हा । एवं विलापान्कुर्वन्त्या स्वस्रा सादृशान्वितम् ॥ ९९७ ॥ ये कठोर न किं यासि हृदय त्वं सहस्रधा । इत्युरस्ताडयन्तीभिर्बन्धुस्त्रीभिर्गुरूकृतम् ।। ९९८ ।। हा वत्स देहि मे वाचं मुखं हा वत्स दर्शय । एवं लपन्त्या मूर्च्छन्त्या मुहुर्मात्रानुधावितम् ।। ९९९ ।। रूपं त्रपा सुवाक् शीलं सत्त्वं दानमिमानि षट् । अस्मिन्गते गतान्यस्माद्रामादिति जनैः स्तुतम् ।। १००० ॥ कृतशृङ्गारया दानं तन्वत्या तुरगस्थया । कान्तयानुगतं गन्तुं सार्धं वैधव्य भीतया ।। १००१ ॥ उत्पादितं स्वजातीयै छ कौसम्भवाससा । कुमारः सप्रियो ऽपश्यत् पुमांसं मृतमर्चितम् ।। १००२ ।।
॥ दशभिः कुलकम् ॥ तस्मिन्किचिदतिक्रान्ते शोकानुत्पत्तिसमम् । मृत्युयोगो ऽस्य नास्त्येवेति ब्रुवन्तं सहानुगैः ॥ १००३ ।। शान्ताकृतिगतिस्वान्तं प्रत्यासत्तिचरं नरम् | स्वयमेव कृताह्वानं पप्रच्छेति नृपाङ्गभूः ।। १००४ ॥
युग्मम् ॥ ग्रामवास्यपि किं पश्वात्त्वमागाः किं शुचोज्झितः । मृत्युयोगो ऽस्य नास्तीति किमेभिर्भाष्यते ऽनुगैः ॥१००५ ॥ अथ ध्रुवं धराधीशसुतः कोऽपि गुणैः स्मृतः ।
अर्को ऽयमद्भक्तानां कावनामिति सो ऽवदत् ॥ १००६ ॥ भवतः कुलमाकारादेव देव विभाव्यते ।
१४४
क
त्वं लक्ष्यते साक्षात्प्रवृत्तिमश्नतः पुनः ।। १००७ ॥
कुर
211
I