________________
[स.१००८-१०१९) वासुपूज्यचरितम्
१४५ तद्वार्ताकथनस्थानमसमानमसि प्रभो । सकर्णाकर्णय त्वं मे विचारकवचं वचः ॥ १००८ ॥ धर्मे ऽहं विहितानन्द आनन्द इति नामतः । नन्दिग्रामे ऽत्र वास्तव्यो वस्तुव्यवहतिस्थितिः ।। १००९ ।। गृहिवतानि सम्यत्कमूलानि प्रतिपालयन् । वहिष्ये प्रतिमास्तास्तु भवन्त्येकादशेत्यमः ॥१०१०॥ सम्यक्के निरतीचारस्त्रिकालं पूजयेजिनम् । मासं यावद्गही सा स्याइर्शनप्रतिपादिमा ॥१०११ ॥ म्याव्रतप्रतिमा शुद्धाणुव्रतानि वितन्वतः । मासद्वयेन प्राच्योक्तक्रियायुक्तस्य गेहिनः ॥ १०१२ ॥ सामायिकप्रतिमा सा यत्र सामायिकं गृही। द्विसंध्यं सेवते मासत्रयं पूर्वक्रियान्वितः ॥ १०१३ ॥ पौषधप्रतिमा यत्र श्राद्धो मासचतुष्टयम् । सक्रियः पौषधं धत्ते चतुष्पव्यों चतुर्विधम् ॥ १०१४ ।। श्राद्धः शुद्धाशयस्त्यक्तस्नानः प्राशुकभोजनः । ब्रह्मवानहि रात्रौ च कृतमानः स्वयोषिति ॥ १०१० ॥ पौषधस्थश्चतुष्पा प्रतिमामेकरात्रिकीम् । अपनः पञ्चभिर्मासैः प्रतिमा पश्चमी भवेत् ॥१०१६।।युग्मम् ।। पूर्वोदितविधेः षष्ठी षण्मासैब्रह्मचारिणः ।। सप्तमी सप्तभिर्मासैः सचित्तं त्यजतो ऽखिलम् ॥ १०१७॥ त्यक्ते स्वयंसमारम्भे मासैरष्टभिरष्टमी । नवमी नवभिर्मासैरनारम्भे परैरपि ॥ १०१८ ॥ यत्रोद्दिष्टकृताहारत्यागी मुक्तधनः शिखी। मुण्डीव जायते श्रादो दश मासान्दशम्यसौ ॥ १०१९ ।।