SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्रीवर्धमान सिविरचितं [स. २. ९७४ - ९८४] वद्धवाष्पां दृशं कन्या वरे च शनकैर्ददौ । सनत्कुमारयुग्मं च मञ्चस्थमियमैक्षत ।। ९७४ ॥ युग्मम् ॥ अथ सस्ता व्याकुले क्षितिभृत्कुले । कन्यायां कं वृणोमीति ध्यायन्त्यां वीक्ष्य तौ मुहुः ॥ ९७५ ॥ # मत्पार्श्ववर्ती धूर्तो ऽयं कोऽपि कन्ये वृणीष्व माम् । इति तुल्यं तयोरास्यादुल्ललास तदा वचः ।। ९७६ ॥ युग्मम् ॥ १४२ ततः सनत्कुमारो यः समदीयहृदि स्थितः स्वकण्ठन्यस्तयैवाहं मालया तद्वृगोभितम् ।। ९७७ ।। एवं वचो दृढारावं श्रावयन्ती सभासदः । स्वकण्ठकन्दले बाला वरमालामलालयत् ।। ९७८ ॥ इति तन्मतिलीलाभिर्वैलक्ष्याद्विलयं गते । मायासनत्कुमारे ऽभूदद्वितीयः स भूपभूः ॥ ९७९ ॥ गुणिनो वरणादस्यां गुणायाममत्सरैः । चक्रे नृपकुलैर्मायाजयाज्जयजयारवः ।। ९८० ।। तादृक्षदक्षताहृष्टैः स्वयंवरणदर्शिभिः । तस्या मूर्ध्नि मरुचकैश्चक्रिरे पुष्पवृष्टयः ।। ९८१ ॥ अथानन्दपथामन्दपान्थो नाभाकभूविभुः । सन्मानावर्जितैः सर्वैर्जगतीजानिभिर्युतः ।। ९८२ ॥ तयोः स्मेरस्मरोत्साहं तं विवाहोत्सवं व्यधात् । यद्विलोकादिवेन्द्रो ऽपि सहस्रनयनो ऽजनि ॥ ९८३ ॥ ॥ युग्मम् ॥ शृङ्गारसुन्दर्या करम्बिकरपल्लवः । कुमारः कल्पवल्येव पारिजातमहीरुहः || ९८४ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy