SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ [स. २. ९६२-९७३] वामपज्यचरितम् नुत्वा नुत्वा ततो भूपमन्यमन्यं ययौ जया । आलोक्यालोक्य कुसुमं वनभृङ्गीव सुस्वरा ॥ ९६२ ॥ सनत्कुमाररक्ता सा तेषु तस्थौ न कन्यका । जलाशयेषु हंसीव सिद्धसिन्धुनदोन्मुखी ॥ ९६३ ॥ सा ययौ यस्य यस्याग्रं स स भूपो ऽभजल्लभाम् । सं यं लक्ष्मीरिवामुञ्चजज्ञे स स मलीमसः ॥ ९६४ ।। कृतं प्रागेव दृष्ट्यैव बालया वरमालया। सनत्कुमारमासाद्य निजगाद जया ततः ॥ ९६५ ॥ जम्बुद्वीपश्रियो भाल इव खण्डे ऽत्र भारते । पुरी किरीटसादृश्यं श्रीकान्ता परिगच्छति ॥ ९६६ ॥ सिंहनामा गतत्रासः कलाभिर्मुकुरीकृतः । तत्र नायकमाणिक्यनिभतां लभते नृपः ॥ ९६७ ॥ अयं तस्याङ्गभूरंशुप्रकाश इव काशते । सनत्कुमारस्तारुण्यरूपयोरुचितस्तव ॥ ९६८ ॥ अमान्तः काममस्यान्तः सुत्ता विशदा गुणाः । एतचित्त इव व्यूढे व्योनि तस्थुरुडुच्छलात् ॥ ९६९ ॥ अनन्यशोभमम्भोजमिवास्योद्भासुरं करम् । समेति पद्मवासेति युधि लक्ष्मीविपक्षतः ॥ ९७० ॥ कलानां ग्रहणे रक्तः सक्तश्चायं गुणाजने । तद्भङ्गपातभीत्येव न पुराभूत्परिग्रही ॥ ९७१ ॥ वरमाला वरेण्याङ्गि तत्कण्ठे ऽस्य निवेश्यताम् ॥ अनुरूपस्य वरणात्त्वां नुवन्तु दिवौकसः ॥ ९७२ ॥ अयोद्यत्पुलकं खेदलवाई दधती वपुः । माल्ये न्यस्य कराम्भोज कम्पि चम्पिकयार्पिते ॥ ९७३ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy