________________
१४० श्रीवर्धमानमूरिविरचितं [से. २.९५०-९६१]
अमुं तृणीकृतारातिं वृणीष्व वरवणिनि ।। सपत्नी रत्नंगी ते भातु रत्नाकराम्बरा ॥ ९५० ॥ रत्नदण्डप्रतिमितां भूपे ऽस्मिन्नस्मितेक्षणाम् । तां वीक्ष्य कन्यकां निन्युर्विमानं ते ऽन्यतो नराः ॥९५१॥ अथावदज्जया देवि पश्यामु दर्पकाभिधम् ।। पाण्ड्यं कोदण्डपाण्डित्यंचण्डमाखण्डलं भुवः ॥ ९५२ ।। द्विषः स्वमेषु वीक्ष्यामुमुदलं जातजागराः। नमन्त्यस्य भ्रमाचित्रमन्मथं चित्रवेश्मसु ॥ ९५३ ॥ एलावनसहेलासु वेलामु पयसां निधेः। ताम्रपर्णीसरिन्मुक्तासिकतामु रतिर्यदि ॥ ९५४ ॥ तदेनं वृणु वामाक्षि मदयन्तु मनस्तव । कपूरचन्दनामोदकलया मलयानिलाः ॥ ९५५ ॥ इतो ऽस्या सरलं वीक्ष्य तरलाक्ष्या निरीक्षणम् । चलित्वा किंचिदित्यूचे वचः मुविनया जया ।। ९५६ ॥ देवि चित्राङ्गदो नाम विचित्रगुणगौरवः । असौ ददाति नानन्दं कस्मै कश्मीरभूपतिः ॥ ९५७ ॥ शुद्धान्तमस्य किं श्लाघे श्लाघ्यास्ता अपि योषितः । स्वमे प्रतिमिती चित्रे ऽप्येनं कान्तं स्पृशन्ति याः ॥९५८॥ अमुं कलय लोलाक्षि त्वत्कपोले लिखत्वयम् । पत्रं शुद्धान्तकान्तासु चित्रमभ्यस्तमन्वहम् ॥ ९९९ ।। रागोचिताः स्तुतीरस्य शारदाचनसत्कवे। नित्यं निधेहि काश्मीरकलिका इव कर्णयोः ॥९६० ।। स मे परः पुमानैव यः पुरामपरिग्रहः । इत्ययाइ प्रतीहारी कुमारीयं मृदुखरा ॥ ९॥१॥
.
..'