________________
[स. २. ९३८-९४९] वासुपूज्यचरितम्
१३९ याति पूज्यस्य कुल्यो ऽपि पूज्यतुल्यो नमस्यताम् । कुमार्या मन्दमित्युक्ते ऽभिसृत्याग्रे जगौ जया ॥ ९३८ ॥ अयं जयन्त इत्यु:जानिर्विजयते युवा । जेता द्विषामयोध्यानामयोध्यानायको बली ॥ ९३९ ।। कान्दिशीकारिदुःकीर्तिकस्तूरीपूरितश्रियाम् । अयं यात्राविहारी खं हारीचक्रे दिशां यशः ॥ ९४० ।। अमुं वृणु विलासेषु देवि सेविष्यसे यदि । सरयूतीरवानीरसमीरसरसा निशाः ॥ ९४१ ॥ स्मरश्रीभामुरे ऽप्युद्यदहर्पतिमहस्यपि । कन्यास्मिन्नाभजद्भावं वसन्ते मालतीव सा ॥ ९४२ ।। दत्तद्वित्रिपदावादीत्तामुद्दिश्य जया ततः। प्रथितो ऽयं पृथुनाम पृथुश्रीमथुरापतिः ॥ ९४३ ।। शक्यते लेखितुं नैष चित्रे चित्रकरैरपि । स्रष्टुं चित्तेऽपि चिपैरेतद्रूपं न पार्यते ॥ ९४४ ॥ अयं स्वतेजःसप्ताश्वसंतप्तामन्वहं महीम् । अमन्दैश्चन्दनस्यन्दैरिव सिञ्चति कीर्तिभिः ॥ ९४ ।। अमुं वृणीष्व रन्तुं चेदुचिता रुचिता तव । उद्यत्कलिन्दजाविन्दुवृन्दा वृन्दावनावनिः ॥ ९४६ ॥ राज्ञो ऽस्य मुखमश्रीकमालोक्य शिविकावहाः । इहाबद्धस्पृहां कन्यां मन्वाना जग्मुरग्रतः ॥ ९४७ ।। जगादाथ जया देवि जयनामा जयत्ययम् । उज्जयिन्या विभुर्विश्वजयिन्याः संपदां पदम् ॥९४८॥ अयं दिग्विजयोदारबलपारभारभारिणीम् । मृणालनाललीले ऽपि महीं बाहौ वहत्यहो ॥ ९४९ ॥