________________
१३८.
श्रीवर्धमानसूरिविरचितं [स.२. ९२६-५३७]
हदि स्त्रग्रजसा कीर्णे चिक्षेपान्यो मुखानिलम् । . . तामनात्मोचितां मत्वा न्यग्मुखो निःश्वसनिव ॥ ९२६ ।। तवेन्दुसुन्दरं वक्तूमिति तां ज्ञापयन्निव । मुष्ट्या न्यमीलयल्लीलापनपत्रावली परः ॥ ९२७ ॥ मुवर्णकेतकीपर्णमपरः करजाङ्करैः। विलिलेख तदङ्गेषु दत्तहक्पुलकान्तिः ॥ ९२८ ।। कश्चित्तदर्शनोद्भिनखेदबिन्दुचयाञ्चितः। अहो संघधर्मो ऽयमित्यूचे ऽन्तःस्मितान्सखीन् ॥९२९।। तां निरीक्ष्य कुरङ्गाक्षी दृशं को ऽपि हृदि न्यधात् । तत्कालमिह कामेन क्षितं काण्डमिवेक्षितुम् ॥ ९३०॥ . एवं विकुर्वतामुर्वीपतीनामग्रवर्त्मनि । आनिनाय जया नाम प्रतिहारी पतिंवराम् ॥ ९३१ ।। अथो निवार्य तूर्यादि दर्शयन्ती धरापतीन् । इयमूचे विलोलभूशृङ्गा शृङ्गारसुन्दरीम् ॥ ९३२ ॥ अमी समीयुस्त्वश्या विश्वे विश्वम्भराधराः । चन्द्रीकुरु कमप्येषु चक्षुःकुमुदकौमुदि ॥ ९३३ ॥ अयं स हंससंज्ञः श्रीनाभिसूनुकुलाङ्करः। राशीकृतयशा देवि काशीपुरपुरन्दरः ॥ ९३४ ॥ दिवा विश्वसमक्षाणि निशि स्वामयानि च । न विश्राम्यति देवार्चादानानि जनयन्त्रयम् ॥ ९३५ ।। एष धर्मैकनिर्माणव्यसनी शक्तिमानपि । अन्यैरपि नृपैर्भुज्यमानामुर्वीमुपेक्षते ॥ ९३६ ॥ अमु गमनलालित्यवरले तरले वृणु। .. जानकातरङ्गेषु ईसैकसहचारिणी ॥ ९३७ ।।...