________________
[ स. २. ९१५ - ९२५] वासुपूज्यमेतिम्
अमान्तमन्तरुद्धान्तं कश्मीरजरजश्छलात् । सनत्कुमाररूप श्रीरागमङ्गेषु विभ्रती ॥ २१५ ॥ विभूषणझणत्कारैर्नर्तयन्तीव मन्मथम् । स्मिता हासयन्तीव रतिं लोचनलीलया ।। ९१६ ॥ पीयमानमुखेन्दुश्रीर्लोकचक्षुचकोरकैः ॥ जीवादिशेति जल्पद्भिः सेव्यमाना सखीजनैः ।। ९१७ ॥ चम्पिकाहस्वविन्यस्तस्वयंवरणमालिका |
विवेश नृविमानस्था मण्डपं नृपनन्दिनी ॥ ९९८ ॥
सप्तभिः कुलकम् ||
अभूवन्नुद्भवद्भावविसंस्थुलहृदां तदा । तद्विलोकादधीराणां वीराणां विविधाः क्रियाः ।। ९१९ ।। तथाहि ।
१३७
प्रसनीकर्तुमिव तां कश्चित्तत्पादसोदरम् । आरोपयनृपो मूर्ति लीलातामस्सं स्सी ।। ९२० ।। अस्य धानि निधास्ये त्वामित्यस्यै कथयन्निव । कश्चित्करेण निःसीमं सीमन्तमणिमस्पृशत् ।। ९२१ ।। कङ्कणे पाणिपुष्पाणि को sपि न्यधित लीलया । ग्रहान्नवापि तां लब्धुं तज्जुषः पूजयन्निव ।। ९२२ ।। रेजे सख्युः पुरस्थस्य वेणि पाणौ धरन्परः । स्वं तस्यै वशगं वक्तुं कुर्वन्दिव्यमिवोरगम् ॥ ९२३ ॥ कश्चिज्जगाद पादान्तजुषो नीचैर्मुखः सखीन् । नमन्मौलितया तस्याः सामान प्रविशन्निव ॥ ९२४ ॥ अपरः कम्पयामास मौलिमालोकयन्निमाम् । पुष्पवाणेन वाणेन वाढं हत इवोरसि ।। ९२५ ।।