SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीवर्धमानसूरिविरचितं [स. २. ८७९-८९०] अयं ते देवि स प्राणदयितो यस्त्वदिच्छया । तूर्णमाज्ञा विधायीव जज्ञे लोचनगोचरः ।। ८७९ ।। एतदालोकपीयुषपानविघ्नां त्यज त्रपाम् । अस्याननेन्दौ हृद्याङ्गि कुरङ्गीकुरु लोचनम् ॥ ८८० ॥ इत्युक्तयासकदुल्लास्य दृशं भूपालबालया । दृष्टास्यं हृष्टमनसं कुमारं स्माह चम्पिका ।। ८८१ ॥ हर्षाश्रुवारिहारिण्या स्फारतारांशुदुर्वया । इयं ते वीर दत्ते ऽदृशा प्रसृतिदीर्घया ।। ८८२ ॥ अस्ति त्वदुचितं नान्यदातिथ्यं त्रिजगत्यपि । त्रिजगन्महनीयेयमेवातिथ्यं तवास्तु तत् ।। ८८३ ॥ स्वागतं वीरकोटीर तवास्मिन्नस्मदोकसि । विशतः स्खलितं नासीत्कथमुद्दामयामिके ।। ८८४ ॥ अथोदितस्मितव्याजराजद्युतिततीरिति । कुमारस्तोष दुग्धाब्धिमुक्ताली रुज्जगार गाः ।। ८८५ ॥ सखीं शृङ्गारसुन्दर्यास्त्वां मत्वा कीरकीर्तनात् । सहैवाहमिहागच्छमदृशीभूय विद्यया ।। ८८६ ॥ कण्ठपाशं कुरङ्गाक्ष्याः कृन्ततो ऽत्र करान्मम ! च्युतश्चित्रपटो ह्रीण इवास्यां दृक्पथस्पृशि ।। ८८७ ॥ स्वं च धन्यममन्ये ऽहमिह स्नेहवशंवदाम् । इमामालोकयँल्लोकत्रय लोचनचन्द्रिकाम् ॥ ८८८ ॥ इति वर्षति कर्णेषु कुमारे सूनृतामृतम् । नृपतिप्रतिहारेण गर्जिवद्गदितंबहिः ।। ८८९ ॥ रे किंकरा धराजानिर्युष्मानाज्ञापयत्यदः । हृद्यः संपाद्यतामद्य स्वयंवरणमण्डपः || ८९० ॥ १३४
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy