________________
[सं. २, ८६७-८७८] वासुपूज्यचरितम्
.
::
किमेतत्पतितं क्ष्मायामित्युत्थायाथ चम्पिका । करेणादाय पश्यन्ती दृष्यन्तीदमुवाच सा !...:. :: देवि दवि स एवायं वामाचित्रपटः स्फुटः। दिष्ट्या च वर्धसे देवि यत्त्वमेवात्र चित्रगा ।। ८३८॥ सनत्कुमारं त्वय्येवासक्तं कथयितुं पुनः । चित्रस्थिता त्वमेवात्र कथमार्तासि कथ्यताम् ।। ८५९ ।। इति वागमृतं तस्याः स्फीतं पीत्वा पतिवरा । . तमादाय करे चित्रपटमित्याददे वचः ॥ ८७० ॥ श्लाध्यासि लब्धतत्सङ्गा चित्रशृङ्गारसुन्दरि : शोचनीयासि च रुचं धत्से तद्विरहे ऽपि यत् ।। ८७१ ॥ धन्यास्मि तत्करस्पर्श प्राप चित्रगतापि यत् । इतीयमुद्यत्पुलकं मुमुदे कुमुदेक्षणा ॥ ८७२ ।। प्रियं परिरभे किं न पटान्तरितमप्यहम् । सेत्यदात्तं परीरम्भमित्रं चित्रपट हृदि ॥ ८७३ ।। करगोचरमप्येनाममयश्चित्रसुन्दरीम् । कुमारवर नायासि किं चक्षुर्गोचरे ऽपि मे ॥ ८७४ ।। एवं तयोक्ते शून्ये ऽपि सत्यः प्रत्यक्षतामगात् । सनत्कुमारो धामौघधौतधामान्तरः पुरः ॥ ८७५ ॥ गृह्णीत करकं दत्ताचमनं मुञ्चतासनम् । कुमारः सो ऽयमायातीत्यूचे कीरो निरूप्य ताम् ।। ८७६।। अथाभ्युत्थाय हर्मिप्रणुन्नेवाशु चम्पिका । ददावासनमासीने कुमारे चेदमब्रवीत् ।। ८७७ ॥ अद्य नः सफलं जन्म सुमुहूर्ताद्य यामिनी । यदस्मद्धान्नि देवेन स्वयं पादो ऽवधारितः ॥ ८७८॥