SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ [स. २. ८४४-८५५] वासुपूज्यचरितम् १३१ कुमारः कामत्राणार्त इव मौलिमकम्पयत् ।। ८४४ ।। क्षणं क्षुभितमात्मानमथ संयम्य धीरधीः । चित्रं संहृत्य चित्रज्ञं कुमारः सच्चकार तम् ॥। ८४५ ।। अस्मासु प्रतिहारोक्तिविदितासु ततः कृती | सन्ययुङ्क्त तं हर्षिस्मित संहर्षिलोचनम् ।। ८४६ ॥ सोऽस्माभिर्माल्य कर्पूरचन्दनाद्युपढाकितम् । जग्राह बहुमानेन गौरं स्वगुणदृन्दवत् ।। ८४७ ।। दापितेषु निविष्टाभिर्विष्टरेषूचितं ततः । चकार चिरमालापं सहास्मभिर्महाशयः ।। ८४८ ।। अस्ति शृङ्गारसुन्दर्याः क्रीडाकीरो विशारदः । त्वत्सभोचित एवेति विज्ञप्तो ऽसौ मया तदा ।। ८४९ ॥ पश्चान्मुक्तो मयाप्यस्ति दत्तहृत्कौतुकः शुकः । इत्युक्ते ऽथ कुमारेण कश्चित्तस्य चरो जगौ ॥ ८५० ॥ कीरवरैः स माणिक्यपञ्चरेण समं हृतः । इति श्रुतिवशात्किंचिच्चिन्तार्त इव स स्थितः ।। ८५२ ।। कलशीभवति व्योममण्डपस्येन्दुमण्डले । अस्मान्सत्कृत्य कर्तव्यप्रवीणः प्राहिणोत्ततः ।। ८५२ ॥ ईदृक्सनत्कुमारः श्रीकेलिशैलो जयत्ययम् । जगत्रयचमत्कारिहारिचारित्रभाजनम् ।। ८५३ ॥ कास्ते सनत्कुमारः किं मामद्यापि न भाषते । न पाठयति सूक्तानि न फलानि प्रयच्छति ।। ८५४ ॥ तां श्रुत्वा चम्पिकावाचं तदित्थं भाषके शुके । आचचक्षे विलक्षेदं वचः शृङ्गारसुन्दरी ।। ८५५ ।।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy