________________
१३०
श्रीवर्धमानसूरिविरचितं [स. २. ८३३-८४३]
स. कुमारः कलावद्भिर्भूरिभिर्भूषितान्तिकः । न्यभाल्यत सभावर्ती चक्रवर्ती शुभात्मनाम् ||८३३ ॥ युग्मम् ॥ लोलमौलितया चञ्चचूडामणिमरीचिभिः । आरात्रिकमिवातन्वन्कवीनां काव्यसंपदः || ८३४ ॥ चालयन्नङ्गुलीं रङ्गन्नखांशु विततांशुकाम् । वाग्गेयकारिणां गीतेः पताकामिव कल्पयन् ॥ ८३५ ॥ चमत्कारकरानेवं स गृह्णन्गुणिनां गुणान् । चमत्कारकरं दानं ददानो नृणतां ययौ ।। ८३६ ॥ त्रिभिर्विशेषकम् ॥
मुधाकृतसुधातृष्ट्या दृष्ट्या प्रीतिप्रसन्नया । तदा सेवकतातापं सेवकानां लुलोप सः ।। ८३७ ॥
तदा कुमारः कुतुकी यत्र यत्र दृशं ददौ ।
विज्ञानं दर्शयामास स्वं स्वं वैज्ञानिकः स सः ।। ८३८ । ६ नृपपुत्रि क्षणे तत्र चित्रविद्याविशारदः ।
को sपि चित्रपटं पाणौ कुमारस्य समर्पयत् ।। ८३९ ॥ तं वीक्ष्य विस्मितो ऽपृच्छन्नृपभूलिंपिकारिणम् । चित्रसंवादिनी तस्या रूपश्रीरस्ति वा न वा ।। ८४० ।। स जगाद के संवादस्तस्याश्वित्रेण वर्तताम् ।
शक्या रचयितुं केन चित्रे चन्द्रस्य चन्द्रिका || ८४१ ॥ ग्लीलाद्युज्झितं कास्तु चित्रकर्म तया समम् । यस्या दृश्यार्घदेहत्वात्प्रतिबिम्बे ऽपि नोपमा ।। ८४२ ॥ नेशी कापि कान्तास्ति कुमार त्रिजगत्यपि । विश्वरूपाणि नः पाणिवर्तीनि लिपिशास्त्रतः ।। ८४३ ॥ इत्याकर्ण्य चिरं चित्रे पश्यन्कामपि तामयम् ।