________________
[स. २.८२१-८३२] वासुपूज्यचरितम्
कुमारः सोऽयमाचख्ये व्याचख्ये च गुणे गुणे॥ ८२१ ॥ अथ पृथ्वीशपुत्री सा प्रैषयच्चम्पिकां सखीम् ।। ज्ञातुं वृत्तानि वीराणां सर्वेषां शर्वरीमुखे ॥ ८२२॥ सा यात्वा यामिनीयामयमले समुपेयुषी । सुप्ताखिलसखीलोकां प्राह भूपसुतां प्रति ॥ ८२३ ॥ भूपप्रहितसत्कारधारिनारीशतान्विता। न्यमालयं भुजभृतः समस्तानपि तानहम् ॥ ८२४ ॥ कन्दर्पहस्तशस्त्रीषु स्त्रीषु तासु गतास्वमी। विविधां विदधुवीरा विकृतिं कृतिताकृते ॥ ८२५ ॥ कलाकलापरुचिरः सुरोचिर्लोचनप्रियः । कश्चिदात्मनि भूपेन्दुः खिंगतामकलयत् ॥ ८२६ ॥ कलानां पटलं रूपं गुणानां च गणं परः। मदेनादूषयन्मद्यबिन्दुनेव पयोघटीम् ॥ ८२७ ॥ कीर्ति कलाधुनीधौता गुणस्यूतां पटीमिव । व्यधान्मित्रक्रुधा कश्चिद्धम्ययेव मलीमसाम् ॥ ८२८ ॥ किमप्यजल्पन्हयाङ्गः को ऽपि स्तव्धत्वनिश्चलः । अविज्ञ एव विज्ञातो मया ग्रावपुमानिव ॥ ८२९ ॥ इति ताभिः समं राजलोकमालोकमानया। प्रथयन्त्या यथावस्यं मिथस्तत्कीर्तिकीतनम् ।। ८३०॥ श्रूयते यद्यशः शीलकुलरूपकलामयम् । सौध समस्कुमारस्य तस्य सीत्कण्डमागतम् ॥ १॥
॥युरमम् ॥ मध्येधाम वयं यामस्तम्मुखालोकनोन्मुखाः । यावत्तावन्महेन्द्रेणाप्यनुच्छिष्टं वहन्महा ।। ६३२॥