________________
१२८ श्रीवर्धमानभूरिविरचितं सिं.२. ८०९-८२०]
अवगन्तुं कुमारं तं व्यलोकि शुकविक्रयी।। ८०९ ॥ चिरं निरीक्ष्यमाणो ऽपि कापि प्रापि नरैर्न सः। शुद्धधर्मोपदेष्टेव दूरभव्यैः शरीरिभिः ॥ ८१० ॥ सद्यः कचिदनासाद्य रसाविभुरसाविमम् । समारब्ध कुमारस्य लब्धये ऽस्य स्वयंवरम् ।। ८११ ॥ सद्यो विमुच्य कौमार्य ये राज्यं भेजिरे नृपाः । गुणोदाराः कुमाराश्व ये तान्भूपो ऽयमाह्वयत् ।। ८१२ ।। ननयो नयसारस्य मन्त्रिणः सागराभिधः। त्वामाहातुमहं नाथ प्रहितस्त्वत्पितुः पुरम् ।। ८१३ ॥ आज्ञातो ऽसि कृतिन्राज्ञा त्वज्जयोत्कर्षहर्षिणा । नद्वासन्तीं पुरीमेतुमुरीकुरुतरां त्वराम् ॥ ८१४॥ न तत्रायामि वामाक्ष्या तयान्यस्मिन्ते यतः । ममाभिभव एव स्यादिदं वदति भूपजे ।। ८१५ ।। स जमौ वीरळ स्वं वर्ष एवं त्या यतः। त्वयि दृष्टे ममाद्याभूदुधानमदनभ्रमः ॥ ८१६ ॥ ईग्रूपं विहाय त्वां कन्या सान्यं वृणोति चेत् । नका तव पराभूतिस्तया किमगुणज्ञया ॥ ८१७ ॥ इत्यायुक्तिभरैः स्वस्य दर्शयन्मन्त्रिपुत्रताम् । कुमारः सागरः कीर्तिसागरं नगरे ऽनयत् ॥ ८१८ ॥ वासन्तीवासवेनाथ संमुखं समुपेयुषा । कुलसत्कृतिनास्थापि स धामनि सधामनि ।। ८१९ ॥ यैर्यभालि प्रभालिप्तनभास्तत्र स भूपभूः । वृथान्यवीरागमनं ते नरा मेनिरेतराम् ॥ ८२० ॥ तदा शृङ्गारसुन्दर्यै चारवर्यैरुपागतः ।