SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ mmmmmaa [स. २. ७९८-८०८] वामपुज्यचरितम् १२७ स कुमारः क रे कीर जल्पन्तीति प्रतिक्षणम् । मनो मनोभवभवव्याधिमत्तमधत्त सा ॥ ७९८ ॥ क्रमानिद्भुतवह्निश्रीविरहस्तां व्यहस्तयत् । पुष्पचापधरापस्य प्रताप इव दुःसहः ॥ ७९९ ॥ तदङ्गेषु हिमं सख्यो यद्यदर्तिभिदे ददुः । तत्तत्तदृष्मणैवाशु पतदेवापदापदम् ॥ ८०० ॥ अमान्मन्ये मदङ्गेषु व्याप तापो ऽखिलं जगत् । उष्णाः किमन्यथा चन्द्रजल जन्मदलस्रजः ॥ ८०१ ॥ निशेश त्वं निशाहीनो दीनो भवसि तत्कथम् । वियुक्तान्दहसि म्युर्वा नराः सहजनिष्ठुराः ॥ ८०२ ॥ जले कमुदिनीम्णा प्राप्तमादाय पाणिना। दलयध्वं विद्यु सख्यः साक्षान्मत्तापकारिणम् ॥ ८०३ ॥ जानानापि वियोगार्तिं पद्मिनीशस्य पभिनि । किं मां दहसि हा कष्टं स्त्रियो ऽपि स्त्रीषु निष्कृपाः ॥८०४॥ सख्यः स्फुटति मे वक्षः साधु स्फुटतु वा जवात् । स कुमारः स्मराकारः प्रेक्ष्यते यदि हृद्गतः ॥ ८०५ ॥ इत्यादि बहु जल्पन्ती पतन्ती मूर्छया मुहुः। मुदती रुदतीभिः सा वयस्याभिरलोक्यत ॥ ८०६ ॥ .. षड्डिः कुलकम् ।। रे कीर क कुमारो मां मुक्त्वा यात्यनुमीयताम् ॥ इति निद्रालयान्तेषु सा स्वमानलपन्मुहुः ॥ ८०७॥ तीव्रतापभृतस्तस्या वयस्याः परितः स्थिताः । अौरधारयन्धागयन्त्रपुत्रीचयश्रियम् ॥ ८०८ ॥ अथेदं मेदिनीशेन मत्वा दिष्टैः पुरे चरैः ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy