________________
२२६ श्रीवर्धमानमूरिविरचितं [स.२.७८६-७९७]
ततः कौतूहलादृश्यमानःक्ष्मानाथकन्यया । काममूर्ति प्रति प्रोचे वाचमित्युत्सुकः शुकः ॥ ७८६ ।। कुमारराज यच्छाशु सुप्रियाणि फलानि मे। सुप्रियं ते पठाम्यार्याद्वयमेतनिशम्यताम् ।। ७८७ ॥ अभियुक्तिशुक्तिमुक्तागुणगणयुक्ताः श्रयन्क्लाः सकलाः। उपलभरविपुलभारैः किमलंकारैः कृती कुरुते ॥ ७८८ ।। फलमविकलदुर्नपजपदुस्तपतपसोर्यदर्जयन्ति जनाः । तकृतये निजयुवतिषु सुकृतकृतः सन्तु संतुष्टाः ॥ ७८९ ।। तावन्मालियमेवेदमार्यायुग्मं शुकस्तु कः । इति ध्यानप्लुते सिंहसुते सो ऽकथयत्कयाम् ।। ७९० ॥ इति कीरोक्तिनाकर्य कन्यां कापि सखी जगौ। आस्ते भुवि युवा दुःखलोरी को ऽनीहशो ऽप्यहो ।। ७९१ ।। स्मरं भ्रमात्कुमारेति संबोध्यार्यायुगं पठन् । रूपं कुलं वयः शीलं गुणान्यस्य शुको ऽभ्यधात् ।। ७९२।। अथ कीरकुमारासि त्वं कुमारस्य कस्य रे । तथ्यं वद यथा दयां हृयां तव फलावलीम् ॥ ७९३ ॥ इति पृष्टः करे कृत्वा कीरः कन्यकया तया । स पपाठ सुधाक्तानि मूक्तान्येव मुहुर्मुहुः ॥ ७९४ ॥ ततस्तिरवां चैतन्यचातुरी केति चेतनी । किंचिदश्चितपश्चेषुः सा विचित्ता गृहं गता ॥ ७९५ ॥ न तपे न सखीजल्पे न वने न निकेतने । न जले न स्थले ऽप्यस्या मनः कचन निर्वृतम् ॥ ७९६ ।। तुलितार्कच्छविरहो विरहोऽम्या हृदि ज्वलन् । ददौ निद्रापनोदाय मदनस्य दिनोदयम् ।। ७९७ ॥