________________
[ स. २. ७२६ - ७३७ ] वासुपूज्यचरितम्
सुहृद्यथ रथाङ्गानां दृक्पथाङ्गणभूषणे । आक्रन्दः श्रवणास्कन्दः कोऽपि व्याप दिशो ऽद्भुतः। ७२६ ।। अथैत्य खेचराधीशपुरेभ्यः खेचरेश्वराः । ऋन्दसंरम्भसंभ्रान्तहृदि मय्यवदन्नदः ।। ७२७ ।। भीमेना पुरश्रेणियैश्वर्याय याचिता ।
हृद्यानि राक्षसी विद्या स्त्रीरूपाण्यभितः श्रिता ।। ७२८ ।। चक्तिभिः पतीकृत्य निखिलान्खेचराधिपान् । छलिनी तलिनीभूय बलिनी निजघान सा ॥ ७२९ ॥ द्वावेव वत जीवन्तौ दैवयोगेन केनचित् ।
भवांश्च रत्नचूडच दिष्ट्या दृष्ट्याद्य वीक्षितौ ।। ७३० ॥ इति तद्वचनैर्मत्वा जीवन्तं सुहृदं निजम् । प्रीत्याहममृताम्भोधिमध्यमन इवाभवम् ॥ ७३१ ॥ अथ जीयात्कुमारस्य शिक्षा नौ जीवनौषधम् । विरुद्धराक्षसीरक्षासिद्धमन्त्रायितं यया ॥ ७३२ ॥ इति ब्रुवन्कुतो ऽप्येष तदा हृदि लुलोठ में । वयस्य एष पीयूषतुषार लवहारवत् ।। ७३३ ।। युग्मम् | ततः प्रीतिभरस्यास्य भागं ते दातुमुद्यतौ । आवामिहागतौ दृष्टस्त्वं च युद्धसमुद्धतः ॥ ७३४ ॥ स्वापिता रिपवो बद्धा नीतायं ततो ऽधुना । किं कुर्वो जीवदा चैककल्पद्रुम समादिश ।। ७३५ ।। अथास्यकमलोन्मीलन्मधूच्चयमयं वचः
ܐܕ
१२१
इदं शदिनुमारेभे कुमारेण प्रमोदिना ।। ७३६ ॥ युवां दिष्ट्या निश्वान्तो राक्षसीकवलग्रहात् । अद्य दिष्ट्याहमाकृष्टो भवद्भ्यां संकटादितः ॥ ७३७ ॥
1