________________
१२०
श्रीवर्धमान सूरिविरचितं [स. २.७१४-७२५ ]
सद्यो ऽभ्युदयदानन्दरसोर्मिस्नान निर्मलाम् । ऊचे वाचं तदा चन्द्रनामा खेचरशेखरः ।। ७१४ ॥ कुमार मार्यमाणेषु खेचरेन्द्रेषु जीवतोः । पुनर्जन्मेव जज्ञे ऽद्य त्वदाज्ञापालनेन नौ ।। ७१५ ॥ तथाहि हृदयग्राहिद्युतिविद्योति विद्यते ।. रथनूपुर चक्राख्यं वैताढ्य शिखरे पुरम् ।। ७१६ ।। तस्मिन्नस्ति मनस्तिग्मभावेन भुवनं द्विषन् ।
भृशं भीमात्मनां सीमा भीमाख्यः खेचराग्रणीः ॥७१७ ।। तपोभिर्दुस्तपैरेष निःशेषखगपेषधीः ।
क्रूराक्षो राक्षसीं विद्यामसाधुः समसाधयत् ।। ७१८ ॥ तत्ततः संकटं शङ्कमानाः कापि न निर्ववुः । नवोत्तरशतद्रङ्गसङ्गिनः खेचरेश्वराः ।। ७१९ ॥ अद्य तद्भयचिन्तार्तिगतनिद्रस्य मे निशि । पुरोऽभूत्कामिनी काचिदियत्ता रूपसंपदाम् || ७२० ।। मकरध्वजराजस्य राजधानीव जङ्गमा । दर्शयन्ती दृशं भावमयीमित्याह मामियम् ॥ ७२१ ॥ जानीहि मां महेन्द्रस्य महिषीं मोहदद्युते ।
मनो बद्धानुरागं तु सुभग त्वगुणेषु मे ।। ७२२ । तन्मदङ्गमनङ्गार्त निवापय कृपामय ।
त्यज चिन्तां तवारतिं हुंकारेणैव भस्प्रये ।। ७२३ ।। क्षोभकैर्लोभकैश्चेति चेतोहृद्भिर्वचोभरैः ।
चिरमभ्यर्थयामास सा मां कामान्धिता भृशम् ।। ७२४ ।। परस्त्रीति निषिद्धैव त्वदाज्ञां ध्यायता मया । क्षणदान्ते विलक्षत्वं दधती सा तिरोदधे ॥ ७२५ ।।