SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ [स. २.७०२-७१३ ] वासुपूज्यचरितम् इत्याजिप्रसरे वाजिदन्तिस्यन्दनपत्तिषु । पतत्सु तुच्छतां गच्छदलं खं सैहिरैक्षत ॥ ७०२ ॥ अथाहितहतत्रस्तसमस्तध्वजिनीजनः । गन्धसिन्धुरमारुहय प्रसरच्चापचापलः ॥ ७०३ ॥ संरम्भी स्तम्भयन्दूरे शूरकेशरिणश्चमूम् । सनत्कुमारो नाराचधाराचयमचञ्चयत् ॥ ७०४ ॥ युग्मम् ॥ तद्बाणपातभीमासु रणसीमासु शात्रवः । न रथी न भटो नेभो न चाश्वः प्राविशद्धृशम् ॥ ७०५ ॥ इत्यस्मिन्नुनसंग्रामभरेण क्षीणमार्गणे । धीरा विरोधिनो ऽधावन्प्रधनायोद्धतायुधाः ॥ ७०६ ॥ मुञ्चन्नथ शरासारं भूरिशो रिपुभूपतीन् । न्यवारयदसावेको विवेको शीनिवान्तरान् ॥ ७०७ ॥ वत्रुः कुमारमार्तण्डं तोयदा इव ते तदा । वर्षन्तो मङ्क धारालैः शरजालैः समन्ततः ॥७०८॥ जीविताशां विमुच्याशु विधूतासिमंधाय सः । नन्दनो मेदिनीजानेर्यावदुत्तरति द्विपात् ॥ ७०९ ॥ हस्तस्रस्तसमस्ताखं लालामालामृताननम् । तावन्निद्रामिलच्चक्षुर्विपक्षबलमैक्षत ॥ ७१० ॥ युग्मम् ॥ . मुप्तानां विद्विषामन्तर्विरराज स राजसूः । आत्मेव ज्ञानिनो मर्छत्कर्मपद्धतिमध्यगः ॥ ७११ ॥ तन्निद्राविस्मितं चन्द्ररत्नचूडौ खचारिणौ । नेमतुः संयतानीतशूरकेशरिणावमुम् ॥ ७१२ ॥ अथोत्फुल्लदृगुन्मीलत्पुलकः परिरभ्य तौ। प्रीतः किमिदमित्येष पप्रच्छ पृथिवीशभूः ॥ ७१३ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy