________________
[स. २. ६७८-६८९] वासुपूज्यचरितम्
११७
~~~ wwwmameramme इत्युपान्तं रिपोराप कुमारः सारसैनिकः । कचिदप्यकृतस्थानः प्रस्थानः कैश्चिदप्ययम् ॥ ६७८ ॥ अथान्तरचरतस्यूतक्रोधविरोधयोः। तयोः सेनाद्वयं जज्ञे संपरायपरायणम् ॥ ६७९ ॥ आसदत्सादिनं सादी निषादी च निषादिनम् । रथिनं च रथी पत्तिः पत्तिं च प्रोद्धतक्रुधः ॥ ३८० ॥ असहिष्णुः परतेजस्तेजस्वी वीरसंचयः । खण्डयामास चण्डांशुभासः काण्डौघमण्डपैः ॥ ६८१ ॥ जयश्रीपरिरम्भाय स्कायमानमनोरथैः । हृष्यद्भिवीक्षितं वीरै रणे रेणुमयं तमस् ॥ ६८२ ॥ सहुंकारैरथोदारैः प्रहारैर्बलशालिनाम् ।। आलम्भि समरारम्भः स्फूर्जत्र्यहतिश्रुतिः ॥ ६८३ ।। स्फुलिङ्गैः स्फुरितं शत्रुशस्त्रापातेन वर्मसु । राज्ञां निस्तुष्यमाणस्य प्रतापस्य तुषैरिव ॥ ६.८४ ॥ द्रवीभूयेव मरेण रक्तपूरेण रेणवः । समरे समनीयन्त तमःसमरुचः शमम् ॥ ६८५ ॥ अश्वः को ऽप्यश्ववारं स्वं पनितं वर्मभारितम् । उपविश्यैनमारोप्य समुत्तस्थौ मृधोद्धतः ॥ ६८६॥ स्फुटितोदरनिर्याताः कश्चिदन्त्रावलीबली । धावनतुत्रुटद्वाजी खुरलग्ना लता इव ॥ ६८७ ॥ दष्टोष्ठो भृकुटीभीमः क्ष्मापातिन्यपि मूर्धनि । धृत्वा दोभ्या रिपुं कश्चित्पतनवादपातयत् ॥ ६८८ ॥ वाहयित्वाग्रतो वाहं कुन्ते वक्षो विशत्यपि । युद्धक्षीणायुधो दन्तैः को ऽपि कण्ठं द्विषो ऽपिषत् ॥६८९॥