________________
११६
श्रीवर्धमानसूरिविरचितं [स.२.६६६-६७७].
वत्स मत्सरिणो जेतुं यामि तेनाहमाहवे । जगरो नगरस्यास्य भवान्भवितुमर्हति ॥ ६६६ ॥ , अथाकिरद्गिरं गौरीमास्यगौरांशुकौमुदीम् । कुमारः कैरवाकारवीरमानसमोदीनीम् ॥ ६६७ ॥ त एव तात सत्पुत्राः खं मत्वा कवचक्षमम् । ये निबन्धापितुः स्कन्धादुद्धरन्ति धुरं युधः ॥ ६६८ ॥ शूरास्तानेव मन्यन्ते नन्दनान्कुलदीपकान् । येषां रिपुत्रीनिःश्वासैस्तेजः प्रत्युत वर्धते ॥ ६६९ ॥ कुलालङ्काररत्नानि कुमारानुर्वरावरान् । उत्तेजयत्ति युद्धोया॑मसिपट्टघटाजुषि ॥ ३७० ॥ तत्प्रभो मां दिश द्वेषिपेषायेति ब्रुवन्नसौ । अग्रहीदग्रहस्ताभ्यां चरणौ धरणीशितुः ॥ ६७१ ॥ उत्थाप्य परिरभ्याथ प्रमोदी मेदिनीपतिः । कुमास्ममुहद्वीरवैराय स्खैरभैरयत् ।। ६७२ ॥ : कृतमाङ्गलिकः सो ऽपि रेणुगोपितगोपतिः । . चचालोच्चचमपूरः शूरकेशरिणं प्रति ॥ ६७३ ॥ . भ्रश्यन्तीं निजभारेण भुवं धर्तुमिवाग्रतः । प्रलम्बमानहस्ता]श्चालितं बलिभिदिपैः ॥ ३७४ ॥ मा भूदस्मरखुरापातैः खण्डशः क्षोणिमण्डलम् । इत्युड्डीन इवाचालायोना हयसमुच्चयः ॥ ६७५ ॥ नर्तयन्रथिनां कीर्ति मूर्ती केतनकैतवात् । . पवनानामनुप्रासः प्रासरद्रयसंचयः ॥ ६७६ ॥ हृदा कवलयन्तः खं ज्वलयन्तो दृशा दिशः । प्रतस्थिरे स्थिरागोलं लोलयन्तो गर्भटाः ॥ ६७७ ॥