________________
[ स. २. ६६४-६६५] वासुपूज्यचरितम्
११५
स्वामिञ्जगज्जयारम्भजृम्भगाणप्रयाणकः । भूरिभूरमणच्छेद मेद स्विप्रसरन्मदः || ६५४ || नृपो रिपुद्विपक्रूरकेशरी शूरकेशरी । त्वां प्रत्युपैति काम्पील्यपुरातनदेवता || ६५५ || युग्मम् ॥ इति वाक्श्रुतिसक्रोधः स्कन्धावाराय दुर्धरः । रथसिन्धुरगन्धर्वभटाध्यक्षान्नृपो ऽदिशत् ।। ६५६ ॥ प्रयाणकम्बुनादेषु काममम्बरचुम्बिषु । सज्जमानासु सेनासु भटेषूत्कटकेषु च ।। ६५७ ॥ तां मत्वा जयिनीं यात्रामेत्य तत्राधिकोद्यमः । कुमारो मस्तकन्यस्तहस्तः क्ष्मापं व्यजिज्ञपत् ॥ ६५८ || युग्मम् ॥ तात मा तव तत्रारिकीटे ऽस्तु कटकस्पृहा । किं तृणोत्पाटने कुम्भी कुण्डलीकुरुते करम् ।। ६५९ ॥ अहमेव करिष्यामि तज्जयं त्वत्प्रसादतः । हन्त्यनूरुस्तमः पूरं किं न सूरप्रभावतः ।। ६६० ॥ कटकं यदि तत्रापि शत्रावातनुषे स्वयम् । बलौ वा शत्रौ वा किं रोषिणि करोषि तत् ।। ६६१ ।। अथाह पृथिवीनाथो नीतिप्रीतिसखीं गिरम् । रोमाञ्चितवपुः सूनोः शौर्येण विनयेन च ।। ६६ ॥ लीलासु लालितं शूरास्तनयं नयशालिनः । पुरः कुर्वन्ति भोगेषु रणाभोगेषु पृष्ठतः ।। ६६३ ।। हृदयानन्दनं दक्षा नन्दनं कुलदीपकम् । न प्रभञ्जनभूयिष्ठे भासयन्ति रणाङ्गणे ।। ६६४ ॥ कुलालंकृतये रत्नं भूरिभाग्यार्जितं सुतम् । कः क्षिपत्यसिकल्लोलैरपारे समरार्णवे ।। ६६५ ॥