________________
११४ श्रीवर्धमानमूरिविरचितं [स.२.६४२-६५३]
ततो वर्गविवेकाब्धिमौक्तिकैयथितां गिरम् । कुमारो हृदि चन्द्रस्य हारहयामिति न्ययात् ॥ ६४२ ॥ न दत्ते निर्दृति हन्ति पुण्यं पुष्णाति पातकम् । अहो हृतं परस्त्रैणं कुथितान्नमिवाहृतम् ॥ ६४३ ॥ परस्त्रीपरिरम्भेण समारम्भः सुखस्य यः । शीताम्भःस्नपनेनेव ज्वरदाहव्यपोहनम् ॥ ६४४ ।। परनार्यो विभावर्य इवाकीर्तितमःमदाः । अदृष्टसत्पथान्पुंसः क्षिपन्ति नरकावटे ॥ ६४५ ॥ घाताध:कारबन्धातिर्मदान्धैर्बुध्यते न कैः। वजद्भिः परनारीषु वारीष्विव मंतङ्गजैः ॥ ६४६ ॥ ततः स्वदारसंतुष्टिः पुण्यपुष्टिरसायनम् । सेवनीया सदा पुम्भिः गुणकुम्भिमहाटवी ॥ ६४७॥ तचन्द्र चन्द्रचारूणां यशसां जलदोपमम् । परनारीपरीरम्भारम्भ निर्दम्भधीस्त्यज ॥ ६४८ ॥ समं च रत्नचूडेन चूडारत्न खचारिणाम् । मा स्म पापघटाजन्म वत्सरं मत्सरं कृथा ॥ ४४९ ॥ रत्नचूड त्वयाप्येतचेतनीयं यतो ऽभवत् । प्रत्यक्षं वां परवधूचौर्यमात्सर्ययोः फलम् ॥ ६५०॥ इति वाचं प्रतिज्ञाय तौ प्रीतौ खेचरी मिथः । सनत्कुमारतेजोनिसाक्षिकं सख्यमीयतुः ॥ ६५१ ॥ अदृश्यीकरणी शिक्षागुरवे गुरुदक्षिणाम् । दत्त्वा भूपभुवे विद्यां तौ गतौ द्यां तया समम् ॥ ६५२ ॥ कदाप्यथ सदासद्मभूषणं सिंहभूभुजम् । अत्यातुरश्चरः कश्चिदेत्य विज्ञप्तवानदः ॥ ६५३ ॥