________________
[स.२.६३०-६४१] वासुपूज्यचरितम्
अथ तौ मूर्छितौ वीक्ष्य विस्मिते भूपतेः सुते । उत्ततार तडित्तारा कापि तारावतो वधूः ॥ ६३०॥ द्विषद्विखण्डिताङ्गस्य पुरुषस्य पुरः स्थिता । चक्रन्द सारसाधिक्यविकसत्करुणस्वरा ॥ ६३१ ॥ किं चरित्रमिदं चित्रमिति पृष्टाथ तेन सा । 'ऊचे ऽधरोष्ठं सिञ्चन्नी शुचा शुष्पन्तमश्रुभिः ॥ ६३२ ॥
शोणरत्नप्रभापूरसिन्दूरचयाचत्रितः। गिरिर्वैतात्य इत्यस्ति श्रीलीलारौप्य हस्तिवत् ॥ ५३३ ॥ तस्योपरि परिस्पन्दलक्ष्मीमन्दमरुत्पुरा । विशालाख्या विशालाक्षीमुखापास्तेन्दुरस्ति पूः ॥ ६३४ ॥ तत्रैष रत्नचूडाख्यो राजा खेलति खेचरः। अस्य प्रियास्मि कश्मीरदेवीति प्रीतिभाजनम् ॥ ६३५ ॥ दुष्टचन्द्रपुरीभ र्ता चन्द्राख्यो ऽयं तु खेचरः। : मया स्मररहस्यानि याचमानो ऽवमानितः ॥ ६३६ ॥ रविणा कौमुदीवेन्दोस्ततः पत्युः समीपतः। . तेजाक्रूरेण सूरेण हृताहममुनाधुना ॥ ६३७॥ अवस्थेयं कृता तेन मद्भर्तुरनुधावतः ।। दुश्चरित्रफलं वीर त्वयास्येदं च दर्शितम् ॥ ६३८ ॥ इत्युक्त्केयं कुमाराय प्रियप्राणितकाङ्क्षणी । आदितदौषधीः सद्यो मूर्छाशतकृतच्छिदः ॥ ६३९ ॥ अथैनमोषधिस्यन्दैरमन्दीकुरुते स्म सः। कुमारः कैरवस्तोममिव सोमः करोत्करैः ॥ ६४० ॥ ततः कृपावतारेण कुमारेणौषधीरसैः । चन्द्रो ऽप्यजीवि कारुण्यं महतां प्रहतान्तरम् ॥ ६४१ ॥